________________
५८
काव्यमाला।
अथ य एते मात्राच्युतादयस्ते किमलंकाराः, उत नेत्याशङ्कयाह
मात्राबिन्दुच्युतके प्रहेलिका कारकक्रियागूढे ।
प्रश्नोत्तरादि चान्यत्क्रीडामात्रोपयोगमिदम् ॥ २४ ॥ मात्रेति । च्युतकशब्दो गूढशब्दश्चोभयत्र संबध्यते । ततश्च मात्राच्युतकबिन्दुच्युतकप्रहेलिकाकारकगूढक्रियागूढानि प्रश्नोत्तरादि । चः समुच्चये । अन्यत्पूर्वालंकारेभ्यो व्यतिरिक्तं तत्क्रीडामात्रोपयोगम् । मात्रग्रहणेनाल्पप्रयोजनता सूचयति । अल्पप्रयोजनत्वादेवालंकारमध्ये न संगृहीतम् । काव्येषु च दर्शनाद्वक्तव्यमिति ॥ तल्लक्षणं यथाक्रममाह
मात्राबिन्दुच्यवनादन्यार्थत्वेन तच्युते नाम । स्पष्टप्रच्छन्नार्था प्रहेलिकाव्याहृतार्था च ॥ २५ ॥ प्रच्छन्नत्वाद्भवतस्तद्गुढे कारकक्रियान्तरयोः । प्रश्नानां च बहूनामुत्तरमेकं भवेद्यत्र ॥ २६ ॥ प्रश्नोत्तरं तदेतद्व्यस्तसमस्तादिभिर्भवेद्बहुधा ।
भेदैरनेकभाष........................"च भिद्यते ॥ २७ ॥ मात्राबिन्दुच्यवनादिति । प्रच्छन्नत्वादिति । प्रश्नोत्तरमिति । मात्रायाः स्वरस्य, तथा बिन्दोरनुखारस्य च्यवनाझंशाद्धेतोरन्यार्थत्वेन भिन्नाभिधेयत्वेन तच्युते मात्राबिन्दुच्युते भवतो नाम । प्रहेलिका द्विधा । स्पष्टप्रच्छन्नार्था व्याहृतार्था च । तत्र स्पष्टः पदारूढत्वात्प्रच्छन्नश्च प्रश्नवाक्य एवान्तर्गतत्वेन भ्रमकारित्वादर्थो यस्याः सा तथाविधा । तथासाधारणविशेषणोपादानादेवाधिगतत्वेनाव्याहृतः साक्षादनुक्तोऽर्थो यस्यां सा तथाभूता द्वितीया । तथा कर्नादिकारकाणां गूढत्वादप्रकटत्वात्कारकगूढम् । क्रियापदानां तु प्रच्छन्नत्वात्नियागूढम् । तथा प्रश्नोत्तरमेतद्यत्र बहूनां प्रश्नानां वचनस्यातन्त्रत्वादेकस्य द्वयोवैकमेवोत्तरं भवेत् । एतच्च प्रश्नोत्तरं व्यस्तसमस्तादिभिः, आदिग्रहणाद्गतप्रत्यागतैकालापकप्रतिलोमानुलोमादिभिर्भेदैर्बहुधा भवेत् । तथैकभाषत्वेनानेकभाषत्वेन च भिद्यते ॥ अधुनैतेषामेव यथाक्रममेकैकमुदाहरणं दिक्प्रदर्शनार्थमाह
नियतमगम्यमदृश्यं भवति किल त्रस्यतो रणोपान्तम् । ... कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा ॥२८॥
नियतेति । त्रस्यतो बिभ्यतो नरस्य । किलेति सत्ये । रणोपान्तं समरनिकटं नियतं निश्चितमगम्यमप्राप्यमदृश्यमनवलोकनीयं भवति।इत्येकवाक्यार्थः । अत्र मात्रया ककारगतेकाररूपया च्युतयान्य एवार्थो भवति मात्राच्युतके च सर्वत्र मात्रापगमेऽप्यकारान्तत्वावस्थितिः । उच्चारणार्थत्वादकारस्य । तत्रान्योऽर्थों यथा-कलत्रस्य दाराणां तो