SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः काव्यालंकारः। तथा यान्ति गच्छन्तीति या अभियोगिनः, अस्तः परित्यको नामो नतियतेऽस्तनामा, याश्च तेऽस्तनामाश्च ते च तेऽरयश्च शत्रवश्च तान्पातयन्ति नाशयन्तीति यास्तनामारिपाताः । यदि वा समशब्दः सर्वनामसु । ततः समरणेषु सर्वसमरेषु महितः पूजित उपायो येषां ते च तेऽस्तनामारिपाताश्चेति समासः । तथा वने रतिर्येषां ते वनरतयो मुनयस्तान्सरन्ति जिघांसयाभिगच्छन्तीति वनरतिसरा राक्षसादयस्तान्मीनन्तीति कर्म. ण्यणि वनरतिसरमायाः । कथं नेदुः । मापसारम् । मा प्रतिषेधे ततश्चाविद्यमानोऽपसारश्छेदो यत्र कर्मणि तन्मापसारम् । किं कृत्वा नेदुः । अमरैर्देवैस्तता विस्तारिता दत्ता या वराली वरपरम्परा तया मानं पूजां गर्व वासाद्य प्राप्य । तथा रणमहिम्ना युद्धमाहात्म्येन तता व्याप्ता आशा दिशो यैस्ते तथोक्ताः । कदा नेदुः । धीरभावे धैर्येऽसिना खड्ड्रेन राते दत्ते सति ॥ अस्माच्छ्रोकादेकाक्षरव्यवधानेन द्वयोर्द्वयोश्च विपर्ययपाठेनायं श्लोको निर्याति । यथा सरमणहिमतोयापास्तमानारितापा वरनतिरसमावायानमारा परं सा । अरमत बत रामा लीनसामाघदूने रमणहितमताधीशारवे भासितेरा ॥ २३ ॥ सरमणेति । काचिन्मानिनी प्रसन्नात्र वर्ण्यते-सा रामा युवतिरधीशारवे दयितव. चसि परमतिशयेनारमत प्रीतिं कृतवती । बत विस्मये । चित्रं मानिन्यपि प्रसन्ना यत् । कीदृशी। रमणो दयितः स एव संतापापहारित्वाद्धिमतोयं नीहारजलम् , सह तेन वर्तते या सा सरमणहिमतोया। अत एवापास्तो निरस्तो मानारितापो गर्वशत्रुजनितोपतापो यया सापास्तमानारितापा । तथा वरा श्रेष्ठा नतिर्मानपरित्यागेन प्रणतिर्यस्याः सा वरनतिः । यद्वा वरे भर्तरि नतिर्यस्याः । तथा असमा सर्वोत्कृष्टा । तथा अवति रक्षत्यात्मानं प्रियं वेत्यवा । न विद्यते यानं गमनमस्येत्ययानः स्थिरो मारः कामो यस्याः सायानमारा । तथा लीनं संबद्धं साम कोमलवचनं यस्याः सा लीनसामा। प्रियभाषिणीत्यर्थः। कीदृशेऽधीशारवे । आद्यः प्रधानभूतः, दून उपतप्तो गद्गदः, आद्यश्च दूनश्च तत्राद्यदूने । रामा कीदृशी। रमणस्य प्रियस्य हिता च मता च । अनुकूलत्वादिष्टेत्यर्थः । तथा भासिता शोभिता इरा वाणी यस्याः सा भासितेरा । मधुरवागित्यर्थः । अस्माच्छोकात्तथैव पूर्वश्लोको निर्याति । एवमन्येऽपि चित्रप्रकारा महाकाव्येभ्योऽवधार्याः । सर्वेषां खरूपदर्शनं कर्तुमशक्यमानन्यादिति । एतेषु यमकश्लेषचित्रोदाहरणेषु व्याख्यानान्तराण्यपि महामतिकृतानि दृष्टानि, परमेकैकमेव चार्वित्येकैकमेव लिखितम् । यत उकं सु. धीभिः-व्याख्यानमनेकविधं लिङ्गमबोधस्य धूम इव वहेः । स्पष्टं मार्गमजानन्स्पृशत्यनेकान्पथो मुह्यन्' इति ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy