________________
काव्यमाला।
रखेति । कश्चिाजाबमाह-हे सार उत्कृष्ट, तव रक्षतः पालयतः सतः सा रसा पृथ्वी सारस्सा उत्कृष्ठरसातु भवतु । हे आयताक्ष दीर्घलोचन, तथा सा क्षतायसा • चालु। क्षतो नाशित आयोऽर्थागमो यैस्ते क्षतायाश्चौरादयस्तान्त्यत्यन्तं नयतीति इत्या । तथा सातं सुखमवतीति सातावा । श्रेयस्करीत्यर्थः । अस्त्विति सर्वत्र योज्यम् । हे अल । अतति नित्यमेवोद्यमं भजत इत्यर्थः । तथा अतासा अक्षया रसा । भवत्वि. समापि योगः। तुर्नियमे । रक्षत एव, न त्ववलिप्तस्य । तथा हे अतक्षर तक्षणं तक्षखनूकरणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः । पुष्टिद इत्यर्थः । चतुर्दिशं वाच्यत्वात्सर्वतोभद्रोऽयं श्लोकः ॥ आदिग्रहणसंगृहीतं पद्माादाहरणमाह
या पात्यपायपतितानवतारिताया ___ यातारितावपति वाग्भुवनानि माया । यामानिना वपतु वो वसु सा खगेया
___यागे खसासुररिपोर्जयपात्यपाया ॥ २१ ॥ येति । सा इना खामिनी गौरी वो युष्मभ्यं यामानष्टावपि प्रहरानिलं वसु धनं चपतु जनयतु । या अपायपतितानापद्तान्प्राणिनः पाति रक्षतीति । किंभूता सती। अवतारितः प्रापित आयोऽर्थागमो यया सावतारिताया । तथा याता निवृत्तारिता शत्रुभावो यस्यां सा यातारिता। निर्मत्सरेत्यर्थः । तथा या वाक् वचनरूपा सती भुवनानि जगन्यावपति व्याप्नोति । या च तत्त्वतो ज्ञातुमशक्यत्वान्मायेव माया । या च यागे यज्ञे स्वेनात्मनैव गेया स्तुत्या । वाग्रूपत्वात्तस्याः । तथा या चासुररिपोर्विष्णोःखसा भगिनी । या च जयं सर्वोत्कर्षवर्तनं भक्तानां पाति रक्षतीति जयपा । तथाविकान्ता अपाया अनर्था यया सात्यपाया। निरापदेत्यर्थः । इदमष्टदलं पद्ममिति पूर्वे भणन्ति तन्न सम्यग्बुध्यते । चतुर्दलं तु बुध्यते। यथा 'या' शब्दोऽत्र कर्णिका अष्टवारान्परावर्त्यते।दलानि द्वादशाक्षराणि । तत्र पार्श्ववर्तिनश्चत्वारश्चत्वारो वर्णा दलसंधिगतत्वादिरावर्त्यन्ते ॥ अथानुलोमविलोमविपर्यस्ताक्षरपाठेन श्लोकाच्छ्रोकान्तरोत्पत्तिमाह। तत्राद्यः श्लोकः
समरणमहितोपा यास्तनामारिपाता
वनरतिसरमाया वानरा मापसारम् । अमरततबरालीमानमासाद्य नेदू
रणमहिमतताशा धीरभावेऽसिराते ॥ २२ ॥ समरणेति । सुग्रीवागदप्रभृतयोऽत्र वानरा वर्ण्यन्ते-वानरा नेदुः । जगदुरित्यर्थः । कीदृशाः । समौ तुल्यौ रणमही संग्रामोत्सवौ येषां ते समरणमहा इन्द्रजित्प्रभृतयस्ते विद्यन्ते येषां ते समरणमहिनो रावणादयस्तांस्तुपन्ति हिंसन्ति ये ते समरणमहितोपाः ।