SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] काव्यालंकारः। उत्साहस्तत उदस्तो निवृत्तः । खाधीन इत्यर्थः । रत्ने कीदृशे । दयनं दानं रक्षा वा तेन यो मदलवो गर्वकणिका तेन यः क्षोदः परिकत्थनं तेन मुक्ते रहिते । प्रियं कृत्वाप्यगर्वित इत्यर्थः । यद्वा अदयनेन निर्दयत्वेन मदलवेन गर्वलेशेन क्षोदेन हिंसया च मुक्के । तथा सह वादेन वर्तते सवादस्तस्मिन् । प्रमाणशास्त्रज्ञ इत्यर्थः । तथा अयन्नगच्छन्नच्छो नैर्मल्यं यस्य तत्रायदच्छे । शुद्धिमतीत्यर्थः । तथा गुरुभिः पूज्यैर्जनितो यश्चिरं क्लेशः शुश्रूषाश्रमस्तेनैव सन्ने श्रान्ते । न त्वन्येन । तत्र वा सन्ने सक्ते । तथा अपदान्पदभ्रष्टानवतीत्यपदावः । यदि वापगतो दाव उपतापो यस्य तस्मिन्निति । यथैवायं श्लोकः क्रमेण पठ्यते, एवं व्यतिक्रमेणापीति प्रतिलोमानुलोमः ॥ अथार्धभ्रममाह सरसायारिवीरालीरसनव्याध्यदेश्वरा । सा नः पायादरं देवी याव्यायागमदध्यरि॥ १८॥ सरसेति । सा ईश्वरा देवी गौरी नोऽस्मानरं शीघ्रं पायादव्यात् । या अगमद्गता । कथम् । अध्यरि रिपूनधिकृत्य । कीदृश्यगमत् । अव्याया विगत आयोऽर्थागमो यस्याः सा व्याया, न व्याया अव्याया। सलाभेत्यर्थः । तथा अयनमायः, सरसः सरोष आयो रणे गमनं यस्याः सा सरसाया, सा चासावरिवीराली च शत्रुसुभटपतिस्तस्या रसनेनाखादनेन हिंसया विशेषेण भक्तानामाधीमनोदुःखान्यत्ति नाशयतीति सरसायारिवीरालीरसनव्याध्यदा। यदि वा सरसाया अरिवीराल्या रसेन भावेन नव्या स्तुत्या। आध्यदा दुःखना. शिका । अर्धभ्रमणादर्धभ्रमोऽयम् । न तु सर्वतोभद्रवत्सर्वत्र भ्राम्यति । न्यासः ॥ अथ मुरजबन्धः सरलाबहलारम्भतरलालिबलारवा । वारलाबहलामन्दकरला बहलामला ॥ १९ ॥ सरलेति । सर्वभाषाभिरमागधिकाभिः शरद्वर्णने श्लोकोऽयम् । तत्र कीदृशी शरदतते । सरलो दीर्घ आ समन्ताद्बहलेन प्रभूतेनारम्भेण तरलानां चञ्चलानामलिबलानां भ्रमरसैन्यानामारवः शब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा । तथा वारलाभिहंसीभिर्बहला संतता । यदि वा वारेण परिपाट्या लावो लवनं येषां तानि तथाविधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यां सा तथाविधा । तथा कर लान्ति गृहन्ति ये ते करला नृपाः । अमन्दा यात्रायां सोद्यमाः करला यस्यां सा तथाविधा । तथा बहलानि प्रभूतान्यामलान्यामलकीफलानि यस्यां सा तथाविधा । यदि वा बहलमत्यर्थममला निर्मला बहलामला । अत्र मुरजत्रयमर्धमुरजौ चान्ते भवतः । न्यासः ॥ . अथ सर्वतोभद्रमाह रसा साररसा सार सायताक्ष क्षतायसा। :: सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥ २० ॥ ....
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy