________________
५२
पूजया सप्रसादामित्यर्थः । अत्र प्रथमपादेन दण्डः, द्वितीयेन फलम्,
वाजावटनी च । न्यासः ॥
अथ शूलम्.--
काव्यमाला |
तृतीयचतुर्थाभ्यां
मा मुषो राजस स्वासूंल्लोक कूटेशदेवताम् ।
तां शिवावाशितां सिद्धयाध्यासितां हि स्तुतां स्तुहि ॥ ११ ॥ शूलम् ॥
अथ शक्त्यादीनि
मा मुष इति । हे राजस रजोगुणयुक्त, स्वासूनात्मप्राणान्मा मुषो मा हार्षीः । तां लोककूटानां जनसमूहानामीशा राजानस्तेषां देवतां स्तुहि नुहि । कीदृशीम् । शिवेन शंभुना वाशितामाहूतां शिवाभिर्वा वाशितां कृतकलकलाम् । सिद्धया कार्यसिद्धयाध्यासितां समधिष्ठिताम् । स्तुतां जगतेति । त्रिशिखमेतेन शूलमुत्पद्यते । प्रथममर्ध दण्डभागे द्वितीयं त्वावर्तपरावर्तैः शिखासु । तत्र सर्वशिखामूले 'तां' शब्दो वारपञ्चकमुच्चार्यते । शिखायामेकस्यां 'शिवा', द्वितीयायां 'सिद्धया', मध्यमायां 'स्तुहि' । न्यासः ॥
माहिषाख्ये रणेऽन्या नु सानु नानेयमत्र हि ।
हिमातङ्गादिवामुं च कं कम्पिनमुपप्लुतम् ॥ १२ ॥ शक्तिः ॥ मातङ्गानङ्गविधिनामुना पादं तमुद्यतम् ।
तयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥ १३ ॥ हलम् ॥ इतीक्षिता सुरैश्चक्रे या यमामममायया ।
महिषं पातु वो गौरी सायतासिसितायसा ॥ १४ ॥ रथपदम् || (विशेषकम् )
1
माहिषेति । मातङ्गेति । इतीति । सा गौरी वो युष्मान्पातु रक्षतु । या सुरैरित्थमीक्षिता सती महिषं यमामं यमगामिनं मृतममाययाच्छद्मना चक्रे कृतवती । किंभूता । आयतैर्दीधैरसिभिः सितो बद्ध आयोऽर्थागमो यैस्तान्दानवादीन्स्यति हिनस्ति या सा तथोक्ता । केक्षिता । माहिषाख्ये रणे महिषासुरसंबन्धिनि समरे । कथमीक्षिता । नेकप्रकारम् । तदेव नानात्वमाह - अन्या नु सा न्विति । नुर्वितर्के । अत्र रण इयं देवी किमन्या स्यादुत सैव । भयानकत्वादनिश्चयः । तथैवंवादिभिः सुरैरीक्षिता यथामुं महिषं कं कुत्सितम् । कम्पिनं कम्पयुक्तम् । कुत इव । हिमातङ्कादिव हिमतैरिव । तथोपप्लुतं मदोद्धतमाहन्ति मारयति । केनाहन्ति । अमुना प्रत्यक्षदृष्टेन मातङ्गानङ्गविधिना । सदर्पत्वाद्गजविधिना, सलीलत्वादनङ्गविधिना । किं कृत्वा । तं लोकप्रसिद्धं पादमुद्यतमुत्पाटितं तङ्गयित्वा भ्रामयित्वा । तदनन्तरं चास्य महिषस्य शिरसि रंहसा वेगेन निपात्य निःक्षिप्य । इत्यादि जल्पद्भिः सुरैरीक्षिता यमामं चक्र इति संबन्धः। देवातास्तुल्या चैतदत्र सूच्यते—यथा प्रायेण चित्रस्य देवतास्तुतिर्विषयो न सरसं काव्यमिति । अत्रायश्लोकेन मध्यतन्वी तीक्ष्णप्रान्ता शक्तिरुत्पद्यते । तत्र 'हिमातं ' इत्यक्षरत्रयं मध्ये, 'नुसा'