________________
काव्यमाला।
पादेति । चतुर्णामपि पादानां यान्यर्धानि तानि तत्रैव पादे परिवृत्तानि सन्ति । पादे पादे समुद्कसादृश्यात्पादसमुद्गकं नाम यमकं कुर्वन्ति । तच्च पादेष्वन्तरितेषु व्यवहिते. वनन्तरितेषु च तथा व्यस्तेषु केवलेषु समस्तेषु च पादेषु बहुधा भवति । ते च बहवः प्रकाराः पञ्चदश । कथमन्तरितं तावत्पञ्चधा । प्रथमतृतीययोर्द्वितीयेन, द्वितीयचतुर्थयोस्तृतीयेन, प्रथमतृतीयचतुर्थानां द्वितीयेन, प्रथमद्वितीयचतुर्थानां तृतीयेनान्तरणम् । इत्येकान्तरितं चतुर्भेदम् । प्रथमचतुर्थयोस्तु द्वितीयतृयतीयाभ्यामिति यन्तरितमेकमेव । इत्यन्तरितं पञ्चभेदम्। अनन्तरितमपि प्रथमद्वितीययोर्युगपद्वितीयतृतीययोर्वा तृतीयचतुर्थयोर्वेति द्वियोगे त्रिभेदम् । त्रियोगेण तु प्रथमद्वितीयतृतीयानां द्वितीयतृतीयचतुर्थानां चेति द्विभेदम् । एवमेकत्रानन्तरितं तत्पञ्चधा । तथा व्यस्तेषु चतुर्पु पादेषु चत्वारो भेदाः, समस्तेषु त्वेक एव भेदः । इत्येवं सर्वे पश्चदश ॥ .. तत्राद्येऽन्तरितभेदद्वये तथा पञ्चदशे समस्तजभेदे च दिक्प्रदर्शनायोदाहरणत्रयमाह । यथा। मुदा सेनामुदासेनादसौ तामसमञ्जसम् । : महीनाथमहीनाथ जयश्रीरालिलिङ्ग तम् ॥ ३७ ॥ ' मुदेति । असौ महीनाथो राजा तां सेनां मुदा हर्षेण इनात्स्वामिनः सेनाभर्तुः सकाशादुदास चिक्षेप । वियोजितवानित्यर्थः । कथम् । असमअसमितस्ततः । अथानन्तरं महीनाथमहीना संपूर्णा जयलक्ष्मीरालिलिङ्ग परिषखजे ॥ द्वितीयोदाहरणमाह- .
यत्त्वया शात्रवं जन्ये मदायतमदायत ।
तेन त्वामनुरक्तेयं रसायत रसायत ॥ ३८ ॥ यदिति । कश्चिद्राजानमाह—यद्यस्मात्त्वया शात्रवं शत्रुगणो जन्ये रणेऽदायतालूयत तेन हेतुनेयं रसा पृथ्व्यनुरक्ता सती त्वामयतागता । 'अय गतौ' इत्यस्य रूपम्। कीदृशम् । शात्रवं मनातीति मत् रिपुमथनसमर्थम् । आयतं विस्तीर्णम् । यद्वा मदेनायतम् । कीदृशी रसा । आयतरसा त्वां प्रति दीर्घाभिलाषा ॥ तृतीयोदाहरणमाह
रसासार रसासार विदा रणविदारण ।
भवतारम्भवतारं महीयतमहीयत ॥ ३९ ॥ रसासारेति । हे रसासार भूश्रेष्ठ, तथा रसानां शृङ्गारादीनामासार वेगवर्षतुल्य, तथा रणविदारण समरभेदक, भवता त्वया, विदा पण्डितेन, आरम्भवता सोद्योगेन, आरं शात्रवमहीयत हानि नीतम् । जितमित्यर्थः । कीदृशम् । मह्यां पृथिव्यां यतं संबद्धम् । हादिवियोजितत्वादिति । अन्यदेशावृत्तौ मनोहारित्वमाश्रियैते त्रिंशद्भेदा जाताः। यथान्तादिके षदकमाद्यन्तके षट्कमिति द्वादश संभवन्ति । सप्तमभेदाभ्यां सह चतुर्दश ।