________________
३ अध्यायः] काव्यालंकारः।
२९ अथाद्यन्तकभेदानाह
प्रथमादिप्रथमाधैः परिवृत्तान्यत्र सार्धमर्धानि ।
अन्यान्यनन्तराणां जनयन्त्याधन्तकं नाम ॥ ३२ ॥ प्रथमादीति । प्रथमद्वितीयतृतीयपादप्रथमाधैः सार्धमनन्तराणां द्वितीयतृतीयचतुर्थपादानामन्त्यार्धानि परिवृत्तानि यमकितानि सन्त्याद्यन्तकसंज्ञकं यमकं जनयन्ति ॥ किमेकभेदमेवेदम् । नेत्याह
इदमप्यन्तादिकवत्क्रमेण षोदैव भिद्यते भूयः ।
अस्योदाहरणानां तेनैव च दर्शितो मार्गः ॥ ३३ ॥ इदमिति । न केवलमन्तादिकमिदमप्याद्यन्तकं तेनैव क्रमेण षोढा षड्भिर्भेदैर्भिद्यते। भूयः पुनः । यथा प्रथमाद्यर्धे द्वितीयपादान्त्यार्धेन सह यमकिते तृतीयाद्यर्धे चतुर्थान्त्यार्धेन सह व्यस्तमाद्यन्तकं द्विधा । तदुभययोगे समस्तमिति तृतीयो भेदः । द्वितीयाद्याध तृतीयान्त्यार्धेन सह मध्यनामा चतुर्थः । मध्यसमस्ताद्यन्तकयोगे वंशः पञ्चमभेदः । प्रथ. मान्त्यार्धचतुर्थाद्यर्धसारूप्ये वंशे च युगपत्कृते चक्रकं नाम षष्ठः । पूर्ववच सप्तमो भेदः संभवतीति । यत्र प्रथमाद्यर्धचतुर्थान्त्यभागयोः सारूप्यम् । अस्य च निदर्शनानां तेनैवान्तादिकेन मार्गो दर्शितो दिक्प्रदर्शनं कृतमिति नोदाहरणं दत्तम् ॥ भूयो भेदमाह
प्रथमतृतीयाद्यधं तदनन्तरचरमयोः परावृत्ते।
भवति समस्तान्तादिकयोगादप्यर्षपरिवृत्तिः ॥ ३४ ॥ प्रथमेति । प्रथमाद्यर्धे द्वितीयपादान्यार्धेन तृतीयाद्यधैं चतुर्थान्त्यार्धेन यमकितं समस्तान्तादिकं चेत्युभययोगेऽर्धपरिवृत्तिर्नाम भवति ॥ यथा
ससार साकं दर्पण कंदर्पण ससारसा ।
शरनवाना बिभ्राणा नाविभ्राणा शरं नवा ॥ ३५॥ ससारेति । कंदर्पण कामेन साकं साधं दर्पण वेगेन शरत्ससार प्रसृता । कीदृशी सा। ससारसा सह सारसैः पक्षिविशेषैर्वर्तते या सा । तथा नवानि नूतनान्यनांसि शकटानि यस्यां सा नवानाः । तथा शरं काण्डतृणविशेषं बिभ्राणा धारयमाणा । तथा भ्राणनं भ्राणः शब्दः । वीनां पक्षिणां भ्राणों विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राणा नैवंविधा । सपक्षिरुतेत्यर्थः । तथा नवा प्रत्यमा तत्कालप्रवृत्तत्वात् ॥
पुनर्भेदान्तराण्याह... पादसमुद्गकसंज्ञं तत्रावृत्तानि कुर्वते तच्च ।
अन्तरितानन्तरितव्यस्तसमस्तेषु पादेषु ॥ ३६ ॥