________________
काव्यमाला।
__ द्वैतीयमिति । द्वितीयपादस्यान्त्याधै तृतीयपादाद्यर्धे परिवृत्तं मध्याख्यं यमकं जनयति । एतस्य मध्यस्य पूर्वोक्तसमस्तान्तादिकस्य योगे वंशो नाम यमकम् । समस्तग्रहणं व्यस्वान्तादिकनिवृत्त्यर्थम् । तनिवृत्तिस्तु लक्ष्यादर्शनात् , न त्वसंभवात् । एवमन्यत्रापि द्रष्टव्यम् । अपिः समुच्चये ॥ तत्रोदाहरणमाह
समस्तभुवनव्यापियशसस्तरसेह ते ।
रसेहते प्रियं कर्तुं प्राणैरपि महीपते ॥ २८ ॥ समस्तेति । हे महीपते भूपते, तवेहात्र रसा पृथ्वी प्राणैरपि । आस्तां धनादिभिः । प्रियं हितं कर्तुमीहते चेष्टते । तरसा झगिति । कीदृशस्य ते । समस्तभुवनव्यापियशसः सकलजगद्यापिश्लोकस्य । इति मध्यः ॥ अथ वंशः
ग्रीष्मेण महिमानीतो हिमानीतोयशोभितः ।
यशोऽभितः पर्वतस्य पर्व तस्य हि तन्महत् ॥ २९ ॥ ग्रीष्मेणेति । प्रीष्मेण निदाघेन पर्वतस्य शैलस्य महिमा माहात्म्यमानीतः । कीदृशः । महद्धिमं हिमानी ततः स्रुतेन तोयेनाम्बुना शोभितो राजितः। हि यस्मात्तस्य पर्वतस्य तद्धिमानीतोयमभितः समन्ताद्यशो वर्तते । तथा पर्व महोत्सवश्च महन्महाप्रमाणम् ॥ पुनर्भेदमाह
आवृत्तं प्रथमादौ द्वितीयमधै चतुर्थपादस्य । वंशश्च चक्रकाख्यं षष्ठं चान्तादिकं यमकम् ॥ ३० ॥ आवृत्तमिति । चतुर्थपादद्वितीया प्रथमपादाद्यर्धन सहावृत्तं पूर्वोक्तवंशश्चेति यमकयोगे चक्रकं नाम यमकम् । षष्टोऽन्तादिकभेदः । एकश्चकारो वंशकसमुच्चये द्वितीयश्व चक्रस्यान्तादिकमध्ये समुच्चयार्थः ।
सभाजनं समानीय स मानी यः स्फुटन्नपि ।
स्फुटं न पिहितं चक्रे हितं चक्रे सभाजनम् ॥ ३१ ॥ सभाजनमिति । स एव मानी मनस्वी यश्चके राष्ट्र हितं चक्रेऽनुकूलं चकार । कि कृत्वा । सभाजनं सभालोकं समानीय सम्यगात्मसमीपं प्रापय्य । सभ्यानां विदितं कृत्वेत्यर्थः । कथं हितं चक्रे । पिहितं गुप्तम् , न स्फुटं प्रकटम् । अविकथनात् । किं कुर्वनपि । स्फुटम्नपि पीडितोऽपि । कीदृशं सभाजनम् । सभाजनं प्रीतिदर्शनम् । लक्षणं सर्वत्र खधिया योज्यम् । अत्र च सप्तमोऽप्येष भेदः संभवति । यत्र केवलमेव प्रथमाद्यर्थे चतुर्थान्त्यार्धमावर्त्यते स तु पूर्वकविलक्ष्येषु दृश्यमानोऽपि कथमपि नोकः ॥