________________
३ अध्यायः]
काव्यालंकारः। पञ्चदशार्धपरिकृति तथामी पादसमुद्रकभेदाश्च पञ्चदशेति । यथेष्टं चावृत्तावसंख्याता भेदाः संभवन्ति । ते तु नोकाः । कविलक्ष्येष्धदर्शनादरम्यत्वाञ्चेति ॥ अधुना प्रकारान्तरमाह
आवृत्तानि तु तस्मिन्नाद्यर्धान्यर्घशो विभक्तानि । ....
वकं तथा शिखान्त्यान्युभयानि च जायते माला ॥ ४०॥ आवृत्तानीति । पादानामाद्यान्यर्धान्यर्धशः खण्डितानि तस्मिन्नेव खण्डितेऽधै यमकितानि वक्र नाम यमकं जनयन्ति । तथान्यार्धान्यीकृतानि तस्मिन्नेव यमकितानि शिखां जनयन्ति । वक्रशिखयोश्च युगपद्योगे माला भवति ॥ क्रमेणैषामुदाहरणत्रयमाह
घनाघनाभिनीलानामास्थामास्थाय शाश्वतीम् ।
चलाचलापि कमले लीनालीनामिहावली ॥ ४१ ॥ घनेति । इह कमले पोऽलीनां भ्रमराणामावली पक्तिींना श्लिष्टा । कीदृक् । चलाचलापि चञ्चलापि । कीदृशामलीनाम् । घनाघना वार्षकमेघास्तद्वदभिनीलानां श्यामानाम् । किं कृत्वा । लीनां शाश्वती स्थिरामास्थां वृत्तिमास्थाय कृत्वा । वक्रमिदम् ।
यासां चित्ते मानोऽमानो. नारीभूयोऽरं ता रन्ता ।
सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता ॥ ४२ ॥ यासामिति । सन्ना सत्पुरुषो भूयः पुनररं शीघ्रं जायेतैव भवेदेव । कीदृशः । रन्ता रमणशीलः। रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः। कास्ताः। नारीः। कीदृशीः। अनन्ताःप्रचुरास्तथा आसन्ना अभ्यर्णाः। यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः । कीदृशः । सन्ना नन्ता नम्रः । सारप्रेमा स्थिरप्रीतिः । इति शिखा ॥
भीताभीता सन्नासन्ना सेना सेनागत्यागत्या ।
धीराधीराह त्वा हत्वा संत्रासं त्रायवायखा ॥ ४३ ॥ . . भीतेति । कश्चिद्दतोराजानमाह-हे धीर निर्भय,आधीर मनोदुःखप्रेरक, सा परकीया सेना चमू: सेना सखामिका त्वा भवन्तमाह ब्रूते । कीदृशी । भीता त्रस्ता, अभीता संमुखमागता, सना सखेदा, आसन्ना निकटवर्तिनी, आगत्य समेत्य, अगत्या गत्यन्तराभावेन । किं तदाह-हत्वा विनाश्य, संत्रासं भयम्, त्रायख पालय । पुनः कीदृशी आयखा आयस्त्वत्सकाशादागमममेव खं धनं यस्याः । इति माला ॥ भूयोप्याह
मध्यान्यार्धानि तु मध्यं कुर्वन्ति तत्र परिवृत्त्या । ... . . आद्यन्वान्यावन्तं काञ्चीयमकं तथैकत्र ।। ४४ ॥ . . ......
मध्यानीति । तुः पुनरर्थे । मध्यान्वर्धार्थानि पुनस्तत्रैम मध्ये परिवृत्त्या मध्यं नाम