________________
सरसामोद व्याख्यासहितम् ।
पण संहर्ता वैदेहीप्राणवल्लभः । सुमित्रानन्दनानन्दी सदा रामो मुदावतु ॥ ९ ॥
दक्षिणावर्तकम्बुरन्नम् ४ ]
८३
सत्वसूचनेन पूजेति पदादादरातिशयव्यञ्जनेन च शब्दशक्तिमूलत्वमपि बोध्यम् । झोषं तु प्राग्वदेवोह्यम् । अत्र विरहकातरा नायिका । उदासीनो नायकः । विप्रउम्भः शृङ्गारः। उत्प्रेक्षापरिकर परिकराङ्कुरादयोऽलंकाराः ॥ ८ ॥ एवं अर्थशक्तिमूलं तमुदाहरति- खरेति । खरदूषणाभिधयोः प्रसिद्धयोः राक्षसयोः संहती विश्वंसक इत्यर्थः । पक्षे रलयोः सावर्ण्यात्खलाः सर्वेऽपि भेदवादिनस्तत्कृतानि यानि दृषणानि ‘द्वैतं सत्यं कार्यकारित्वात् व्यतिरेके वन्ध्यासुतवत्' इत्यादिरूपाणि तेषां संहती द्वैतं मिथ्या दृश्यत्वान्मृगजलवत्' इत्यादिभिर्वाद्युक्तहेतोः सत्प्रतिपक्षत्वापादकादियुक्ति सह सैर्निवारक इत्यर्थः । एतेनाधर्मप्रवर्तकनाशकत्वाद मंत्रतिप्रापकत्वोक्त्या श्रीरामे धर्माख्यपुरुषार्थदातृत्वं ध्वनितम्। वैदेहीति । वैदेही जानकी प्राणवत् वलभा प्रिया यस्य, यद्वा वैदेद्याः सीतायाः प्राण इव वल्लभः प्रेयानित्यर्थः । पक्षेविदेवस्य देहमानशून्यस्य सप्तमीं भूमिकां प्राप्तस्य योगिनः इयं वैदेवी तुरीयावस्था सा प्राणवल्लभा प्राणवत्प्रेयसी यस्येत्यर्थः । एवंचानेन कामाख्यपुरुषार्थप्रदत्वं सूचितम् । सुमित्रेति । सुमित्रानन्दनो लक्ष्मणः न आनन्दी | प्रमोदशालीत्यर्थः । पक्षे सुमित्राणि प्रियसुहृदः अनन्दनाः न नन्दयन्ति ते अनन्दनाः अतोषकाः शत्रव इति यावत् । सुमित्राणि च अनन्दनातिद्वन्द्रः । तेष्वानन्दी 'मुहन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते' इति स्मृतेः । मुहृदादिसर्वत्र ब्रह्माद्वैतचैवानन्दी 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेर्ब्रह्मानन्दवानित्यर्थः । एतेनार्थसंज्ञक पुरुषार्थवितरणप्रवीणत्वं द्योतितम् । तद्यथा कलप्रागभावपरिपालकै क्याधीना हि निखिलावर्षपनिरिति प्रसिद्धमेव । तदत्र सुमित्रानन्दनपदध्वनितसापत्नबन्धुना सद्दाप्येक्याबोधकानन्दित्वाच्या, पक्षे शत्रु मित्रयोः साम्यभावेन सर्वत्र प्रमोदवत्त्वोत्तत्या च सिद्धमेवेति । तथाचोदाहतं काव्यप्रकाशे - 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि पद:' इति । एतादृशो रामः रमन्ते योगिनो यस्मिन्निति सच्चिदानन्दरूपः औरघुवीरः सदा अखण्ड मुदा हर्षेण आयासं विनैव । लीलामात्रेणेत्यर्थः । अवतु रक्षतु । अस्मानिति शेषः । पक्षे सदाराम इत्येकं पदम् । सतां साधूनामाराम इव आरामो विहारस्थानम् । श्रीगुरुरित्यर्थः । शेषं प्राग्वदेव । एवं च मोक्षाख्यपुरूपार्थप्रतिपादकत्वमपि व्यञ्जितम् । अत्र यतो वैदेहीप्राणवल्लभः अतः खरदूषणसती । तत्किं कामक्रोधवान् । न । यतः सुमित्रानन्दनानन्दीति हेतुहेतुमद्भावो बोध्यः । पक्षे खरेति पदेन वादित्वं प्राप्तमतो वैदेहीति । तत्रापि मुमुक्ष्वनुपयुक्तमतः सुमित्रेति ज्ञेयम् । तथाचात्र षालंकारेण ध्वनितोपमालंकारात्मकार्थशक्त्या रामश्रीगुरोरभेद एवास्तीति वस्तु ध्वनितम् । अन्यत्सर्वमुक्तदिशा प्राग्वदेवोह्यम् ।
1