________________
साहित्यसारम् । - [पूर्वार्धे " वनं गन्तुं समुद्युक्तं पति जनकनन्दिनी।
कटाक्षैः पूजयामास नीलोत्पलदलैरिव ॥ ८॥ विव रतिमदनाविव इङ्गतः परस्परं मन्दस्मितादिचेष्टां कुर्वाते इत्यर्थः । अयंभाव:सीतायास्तावद्भगवतो रामचन्द्रस्य प्राथमिकदर्शनवशादुभयोः सौन्दर्योत्कर्षाच्च सादरावलोकनेच्छायां सत्यामपि लज्जापारवश्यादन्तःपटापसारणोत्तरमेव किंचिकटाक्षच्छटाभिरन्योन्यमवलोक्य 'स्तम्भः खेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सालिकाः स्मृताः' इति रसतरङ्गिणीकारोदाहृतभरतवचनोक्तखेदाख्यसात्विकभावसंपन्नौ सन्तौ श्रीसीतारामाख्यौ दंपती रतिस्मरवदरस्मेरं कुरुत इति । अत्र रतिस्मरयोरुपमानं तु निरुक्ककाले निरुक्तव्यापारकरण एव न तु सौन्दर्याशेऽपि । तेनानयोर्लोकोत्तरसुन्दरत्वं सूचितम् । एवंचात्र सीतारामाख्यालम्बनविभावेन परिणयाख्योद्दीपनविभावेन खेदाख्यसात्विकभावेन किंचित्पदद्योतितव्रीडाख्यव्यभिचारिभावेन तरङ्गितेति कटाक्षानुभावेन च परिपुष्टो रतीत्यादिना स्मितादिचेष्टाविशेषांशोपमानेन ध्वनितो रत्याख्यः स्थायीभाव एव शृङ्गाररसः सूचितः । तस्मानिरुक्तरसध्वनेनिरुक्तसीतादिशब्दशक्तिमूलत्वाद्वाच्यार्थानां सर्वेषामत्रोक्तव्यङ्गयार्थमात्रपरत्वेन विवक्षितत्वादुक्तविभावादीनां व्यञ्जकानां तथा व्यङ्गयस्योक्तरसस्यात्र पौर्वापर्यक्रमसत्त्वेऽपि तस्य कालसौम्यादिना दुर्लक्ष्यत्वेनालक्ष्यक्रमव्यङ्गयत्वादुदाहृतपद्ये निरुक्तरसध्वनित्वलक्षणसमन्वयः । किंचेह वाच्या
पेक्षया निरुक्तव्यङ्गयस्यैव चतुरचमत्कारकारित्वेन प्राधान्यात्प्रागुक्तलक्षणोत्तमोत्तमकाव्याख्यध्वनित्वं बोध्यमिति दिक् । उत्सुकावेवात्र नायिकानायकौ । संभोगः शृङ्गारः । पूर्णोपमाहेतुपरिकरादयोऽलंकाराः ॥ ७ ॥ अथ तमेव वस्तुध्वनित्वेन लक्ष्यक्रमव्यङ्गथं तत्रापि शब्दशक्तिमूलमुदाहरति-वनमिति । जनकनन्दिनीति साभिप्रायम् । जनकं विदेहं नन्दयतीति तथा।'अभयं वै जनक प्राप्तोसि' इति श्रुतेः श्रीमद्याज्ञवल्क्याख्ययोगीन्द्रचक्रवर्तिचूडामणेः सकाशादभिजाततत्त्ववियोऽपि सीरध्वजाख्यः पिता यामेव दुहितरं प्राप्यानन्दी भवति सा वैदेहीत्यर्थः। एतेन शीलपौष्कल्यं ध्वन्यते । अतएव वनं गन्तुं समुद्युक्तं पितृप्रतिज्ञापरिपालनार्थ भरताय राज्यं दत्वा दण्डकारण्यमभिजिगमिषुमित्यर्थः । एतादृशं पतिं 'धवः पतिः प्रियो भर्ती' इत्यमरात्खप्रियं श्रीराममित्यर्थः । कटाक्षैः तिर्यगवलोकनैः, नतु मा विहाय कथं गच्छसीति रोषात्संमुखं क्रूरदृष्टयेति भावः । तत्रापि नीलोत्पलदलैरिव पूजयामास नतु केवलं व्यलोकयदित्यर्थः । वनं प्रति प्रस्थानावसरे मङ्गलार्थे पूजनस्यौचित्यात्कटाक्षाणां च सरसत्वकोमलत्वनीलकान्तिमत्त्वादिसाधर्म्यण नीलोत्पलदलतुल्यत्वाच्च युकैव निरुक्तोत्प्रेक्षेति तात्पर्यम् । अत्र यदि श्रीमद्भिर्वनं प्रति गम्यते तयहमपि दास्यनुयातुमाज्ञाप्येति वस्तु ध्वनितम् । तत्रोक्तव्यङ्गये कटाक्षनिष्ठकारणतानिरूपितकार्यतालक्षणः क्रमः सहृदयैः स्पष्टं - लक्ष्यत एवेति लक्ष्यक्रमव्यङ्गयेति तथा कटाक्षैरिति बहुवचनान्तकटाक्षपदाद्भूय