________________
८१
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
द्विधान्त्योऽर्थातरे वाच्यसंक्रमाच्च तिरस्कृतेः। इत्येते सप्त सामान्या ध्वनिभेदाः स्वरा इव ॥६॥ सीतारामौ समुद्वाहे स्वेदाम्बुकणिकान्वितौ ।
किंचित्तरङ्गितापाङ्गौ रत्यनङ्गाविवेङ्गतः ॥ ७ ॥ कारणभावक्रमो ययोस्तौ तथेत्यर्थः । तदुक्तं काव्यप्रकाशकारिकाकारैः–'कोऽप्यलक्ष्यक्रमव्यङ्गयो लक्ष्यव्यङ्गयक्रमः परः' इति । विवृतं चैवमेव तटीकादौ रसगङ्गाधरे चापि। विस्तरभयात्तु मयात्र दिङ्मात्रमेवोदाहियत इति । तत्रापि पुनरिमा शक्तिमूलौ विवक्षितान्यपरवाच्याख्यौ लक्ष्यव्यङ्ग्यक्रमसंज्ञौ वस्त्वलंकाराभिधौ ध्वनी शब्दार्थशक्तिमूलत्वभेदेन द्विविधावित्याह-शब्दार्थेति । तदुक्तं रसगङ्गाधरे - 'अर्थसंलक्ष्यक्रमध्वनिर्निरूप्यते । स च तावद्विविधः । शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति' इति ॥५॥ एवं क्रमप्राप्तस्याविवक्षितवाच्याख्यस्य लक्षणामूलध्वनेरपि द्वैविध्यं विधत्ते । अन्त्यः लक्षणामूलः । तदुक्तं काव्यप्रकाशकारिकासु-'तत्र वाच्यं भवेवनौ । अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्' इति तिरस्कृतेर्वाच्यात्यन्ततिरस्कारादित्यर्थः । तदयं संग्रहः-'शक्तिमूलो विव. क्षितान्यपरवाच्योऽलक्ष्यकमव्यङ्गयो रसध्वनिः ॥ १ ॥, शक्तिमूलो विवक्षितान्यपरवाच्योऽपि शब्दशक्तिमूलो लक्ष्यव्यङ्गयक्रमो वस्तुध्वनिः ॥ २ ॥, शक्तिमूलो विवक्षितान्यपरवाच्यो लक्ष्यव्यङ्गयक्रमोऽर्थशक्तिमूलो वस्तुध्वनिः ॥ ३ ॥, शकिमूलो विवक्षितान्यपरवाच्योऽपि शब्दैकशक्तिमूलो लक्ष्यव्यङ्ग्यक्रमोऽलंकारध्वनिः ॥ ४ ॥, शक्तिमूलो विवक्षितान्यपरवाच्योऽप्यर्थैकशक्तिमूलो लक्ष्यव्यङ्ग्यक्रमोऽलंकारध्वनिः ॥ ५ ॥, लक्षणामूलो विवक्षितवाच्यत्वेनार्थान्तरसंक्रमितवाच्यो ध्वनिः ॥ ६ ॥, लक्षणामूलोऽविवक्षितवाच्यत्वेनात्यन्ततिरस्कृतवाच्यो ध्वनिरिति ॥ ७ ॥, उपसंहरति-इतीति । खरा निषादाद्याः ॥ ६ ॥ एतेषां सप्तानामपि ध्वनीनां क्रमेणोदाहरणान्याह । सप्तकाण्डरामायणार्थमपि संक्षेपतः कथयन् सीतारामावित्यादिसप्तभिः । तत्रेदं शक्तिमूलस्य विवक्षितान्यपरवाच्यस्यालक्ष्यक्रमव्यङ्गयस्य रसध्वनेरुदाहरणम् । सीतारामौ जानकीजगनिवासौ समुद्वाहे 'विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम्' इत्यमरोक्तर्विवाह इत्यर्थः । सम्यक्त्वं च सर्वसद्गुणपूर्णत्वमेव । अतएव किंचित्तरङ्गितापाङ्गौ किंचित् ईषत् । एतेनोभयोरपि कुलीनत्वाल्लज्जातिशयो व्यज्यते । संजातास्तरङ्गा इव कनीनिकासंचारेण तरङ्गा येषु तादृशा अपाङ्गाः नेत्रान्ताः ययोस्त्री स्वल्पं परस्परं कटाक्षशालिनावित्यर्थः । एतेन अन्योन्यसौन्दर्यरागात्सादरावलोकनाभिलाषो ध्वनितः। अतएव खेदाम्बुकणिकाञ्चितौ खेदो धर्मस्तत्संज्ञकं यदम्बु उदकं तस्य याः कणिकाइव कणिकाः सूक्ष्मबिन्दवस्तैरञ्चितौ । पूजितावित्यर्थः । उद्वाहे तावदक्षतारोंपणं प्रसिद्धमेव । एतयोस्तु पाणिग्रहणात्प्रागेवान्तःपटापसारणक्षणे धर्मजलमौक्तिककणिकाभिरेव तत्संपन्नमित्यञ्चितपदेन द्योतितम् । एतादृशौ सन्तौ रत्यनङ्गा