________________
८०
साहित्यसारम् ।
[ पूर्वार्धे
उत्तमोत्तमकाव्याख्यो यो ध्वनिः प्रागुदाहृतः । असंख्यातोऽप्यसौ शक्तिलक्षणामूलतो द्विधा ॥ २ ॥ यत्रान्यपरमेवेष्टं वाच्यं स प्रथमो मतः । अविवक्षितवाच्याख्यो द्वितीयोऽपि विपश्चिताम् ॥ ३ ॥ रसो वस्त्वप्यलंकार इति भेदात्रिधादिमः । तत्रालक्ष्यक्रमव्यङ्गयो रससंशो ध्वनिर्भवेत् ॥ ४ ॥ वस्त्वलंकारसंज्ञैौ तु लक्ष्यव्यङ्ग्यक्रमौ मतौ । शब्दार्थशक्तिमूलत्वभेदात्तौ द्विविधौ पुनः ॥ ५
तं स्मारयति — उत्तमोत्तमेति । ननु तस्य तु त्वया तत्रैव नानाभेद्युत्तमो - त्तममित्यनेनासंख्यत्वप्रतिज्ञानात्कथमधुना तद्भेदकथनप्रतिज्ञानं युज्यत इत्यत आह- असंख्यातोऽपीति । अपिना व्युत्पत्तिसौकर्याय केषांचिदेव तद्भेदानामद्य कथनं प्रतिज्ञातं नतु निखिलानामपीति स्वाशयः सूचितः । नन्वेवमपि न निस्तारः कतिपयानां तद्भेदानां तु प्रागेव द्वितीयप्रकरणे अभिघालक्षणामूलत्वभिदासौ द्विधा यथेत्यादिना व्यञ्जनादिभेदोक्त्याभिहितत्वादितिचेन्न । विशेषबिधानार्थं तयोरेवात्रानूद्यत्वादित्याशयेन शक्तीति ॥ २ ॥ एवं प्रतिज्ञातध्वनिभेदान्वक्तुं तमनूद्य तद्वैविध्यं कथितम् । अधुना द्विविधस्यापि तस्य क्रमेण तान्त्रिकं संज्ञान्तरमाह - यत्रेति । प्रथमः शक्तिमूलो ध्वनिः । इष्टं वक्तुमिष्टम् । अन्यपरं व्यङ्गयनिष्ठं वाच्यं वाच्यार्थजातं यत्र स तथा । अविवक्षितेति । अविवक्षितं वक्तुमनिष्टं वाच्यं यत्र सा आख्या संज्ञा यस्य स तथेत्यर्थः । एतादृशः द्वितीयोऽपि लक्षणामूलध्वनिरपि विपश्चितां पूर्वाचार्याणां मतः संमतोऽस्तीत्यन्वयः । तदुक्तं काव्यप्रकाशकारिकाकारैः - 'विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः' इति । ‘अविवक्षितवाच्यो यः' इति च एतत्संज्ञाद्वयं क्रमादभिधालक्षणामूलध्वन्योरेवेति तट्टीकादावेव स्पष्टम् ॥ ३ ॥ तत्रापि शक्तिमूलस्य विवक्षितान्यपरवाच्याख्यस्य ध्वनेः पुनस्त्रैविध्यं रसादिभेदाद्विधत्ते - रस इति । तदुक्तं रसगङ्गाधरे'द्विविधो ध्वनिरभिधामूलो लक्षणामूलश्च । तत्राद्यस्त्रिविधो रसवस्त्वलंकारध्वनिभेदात्' इति । तत्र शक्तिमूलस्य विवक्षितान्यपरवाच्याख्यस्य रसध्वनेः प्राग्वदेव तात्रिकीं संज्ञां विधत्ते - तत्रेति । अलक्ष्येति । न लक्ष्यत इत्यलक्ष्यः अज्ञेयः क्रमो यस्य एवंरूपो व्यङ्गयो यत्र स तथा । अयं भावः - — विभावानुभावव्यभिचारिभावैः परिपुष्टः स्थायीभाव एव रस इत्यस्ति क्रमः । उक्तं हि - 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । परंतु स यत्र काव्ये व्यज्यमानस्य रसस्य परिपोषात्कार्यकारणयोर्भेदावभासावभावान्नैवानुभूयते स्पष्टतरं तादृशस्य रसध्वन्याख्यस्य काव्यस्यालक्ष्यक्रमव्यङ्गय इति संज्ञा यौगिक्यन्वर्थिकैवेति ॥ ४ ॥ एवं वस्त्वलंकाराख्ययोः शक्तिमूलयोर्विवक्षितान्यपरवाच्ययोर्ध्वन्योरपि तद्विपरीतां संज्ञां विधत्ते - वस्त्विति । लक्ष्यः व्यङ्गयस्य रसस्यापरिपोषात्क्रमः कार्य