SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्वुरत्नम् ४] सरसामोदव्याख्यासहितम् ___ दक्षिणावर्तकंम्बुरत्नम् ४ प्रासङ्गिक समाप्यैवं ध्वनिभेदानथ ब्रुवे । सरसैः पदविन्यासैरुपागम इव श्रियः ॥१॥ पूर्वप्रकरणेन सहास्य सांगत्यमाह-प्रासङ्गिकमिति । अहमित्यध्याहार्यम् । श्रियः लक्ष्म्याः उपागम इव उप विष्णुसमिपे आगमः विलासार्थमागमनं तद्वदित्यर्थः । पक्षे वसनभूषणादिरचनप्रकारेणेतियावत् । प्रासङ्गिक प्रसङ्गे भवं प्रासनिकम् । स्मृतस्योपेक्षानहत्वलक्षणप्रसङ्गप्राप्तमित्यर्थः । समाप्य समाप्ति नीत्वेत्यर्थः। तथाहि प्रकरणे तावत्काव्यस्य प्रयोजनं लक्षणं स्वरूपभेदो हेतुश्च सोदाहरणमुक्तस्तत्र तल्लक्षणे निर्दोषशब्दार्थगुणवत्त्वोपक्षेपाच्छब्दार्थस्वरूपेण स्मृतं तदितरणद्वितीयप्रकरणे प्रपञ्चितं, तत्र शक्याद्यर्थानामपि व्यञ्जकत्वमभिहितं, तत्र निमितजिज्ञासायां तानि सोदाहरणं तृतीयप्रकरणे कथितानीति प्रथमप्रकरणोत्तरं मध्ये यत्प्रसङ्गप्राप्तमर्थजातं तत्परिसमाप्येति भावः । पक्षे प्रकृष्टः प्राथमिकत्वेन निरुपमो यः सङ्गो भगवत्सुरतप्रसङ्गः तत्र योग्यत्वेन भवं स्वशरीरालंकरणं समाप्य सम्यक्संपाद्येत्यर्थः । अथ अव्ययानामनेकार्थत्वेन प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसर इति तर्कप्रकाशोक्तावसरसङ्गत्येत्यर्थः । एवंच तत्र निर्दोषेति पूर्व कृते काव्यलक्षणे तदुत्तरं तद्भेदा एव वक्तव्याः परंतु तत्र प्रतिबन्धकीभूताः के ते शब्दादय इति कथंवा तेषां व्यञ्जकत्वं कानिच तत्र निमित्तानीति शिष्यजिज्ञासा जाता तन्निवृतौ सत्यामिति यावत् । अनन्तरं 'वनिभेदान् ध्वनिसंज्ञकोत्तमोत्तमत्वेन प्रथमप्रकरणोक्तस्य काव्यस्य भेदानित्यर्थः । पक्षे मञ्जीरम शिञ्जितभेदानितियावत् । सरसैः शृङ्गारादिरसयुक्तैः, पक्षे गजवत् समदं मन्दं च हंसवत्सविलासं सोल्लासं च गतिवशादालम्बनोद्दीपनविभावात्मा यः शृङ्गाराख्यो रसस्तेन सहितैरित्यर्थः । एतेनात्र रसविचारप्राचुर्य, पक्षे लक्ष्म्यां निरुपमचातुर्य सूचितम् । एतादृशैः पदविन्यासैः सुबन्तादिपदरचनैः, पक्षे पदयोश्चरणयोर्ये विन्यासाः स्थापनविशेषास्तैरित्यर्थः । ब्रुवे वच्मीत्यर्थः । नचेदं शृङ्गारालम्बनविभावादेरपि शृङ्गारत्वकथमनुचितमिति शङ्कयम् । तस्य तद्धेतु. त्वेन लागलं जीवन मिति तयक्ततमत्वात् । किंचात्र ग्रन्थकृता खस्य लक्ष्म्युपागमोपमानप्रदानाद्गर्विते एवायमितिचेन्न । एवं चेत्तेनाहंपदविन्यासो मूले किमिति न कृत इति प्रश्नसंभवात् । तस्मात्तदप्रयोगात्प्रत्युतामानित्वमेव । तेन खस्मिन् 'वनितमिति श्येयम् । लक्ष्म्युपागमोपमानप्रदानं तु प्राक्तनप्रकरणस्येन्दिराख्य. रत्नलाभिधानात्काव्यगुणावहमेव । शव्दादिविचारस्य तत्प्रासङ्गिकस्य च पूर्वप्रकरणयोः सिद्धत्वादधुना काव्यलक्षणानुसारेण दोषादिनिरूपणावसर एव तथापि धर्मिज्ञानायैवं । अत्रोपमानध्वनितः शृङ्गारो रसः । उपमालंकारः । गुणादिकं तूक्तदिशा स्वयमेवोह्यम् ॥ १ ॥ ननु कोऽसौ ध्वनिरित्याकाङ्क्षायां प्रथमप्रकरणोक्तत्वेन
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy