SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वा वेदान्ता अपि यं गन्तुं यतन्तेऽनन्तचिन्तया। अहो सोऽपि कपि बन्धुं योजयामास सूचयन् ॥ १०॥ जगत्प्राणसुतोक्तेन पीतेन श्रोत्रपात्रतः। दृष्टा सीतेति वाक्येन रामोऽप्यमरतामगात् ॥ ११ ॥ अत्र धीरललितोदात्तशान्तो नायकः । स्त्रीया प्रगल्भा नायिका । वीरशृङ्गारहास्यशान्तरसाः। श्लेषपरिकरादयोऽलंकाराः ॥ ९ ॥ अथ शक्तिमूलविवक्षितान्यपरवाच्यत्वेऽपि शब्दशक्तिमूलं लक्ष्यव्यङ्ग्यक्रममलंकारध्वनिमुदाहरति-वेदान्ता अपीति । अहो इत्याश्चर्ये । वेदान्ता अपि उपनिषद्भागा अपि । एतेन वेदान्तानां महामहिमत्वं ध्वनितम् । यं परमात्मानं गन्तुमवगाहितुं विषयीकर्तुमिति यावत् । अनन्तचिन्तया अगणितमननपरम्परयेत्यर्थः । यतन्ते प्रयत्नं कुर्वन्ति नतु केवलमभिलषन्त्येवेत्यर्थः । सोऽपि निरुक्तमाहात्म्यः परमात्मा श्रीरामोऽपि कपि सुग्रीवं प्रति कपिमेव सूचयन्निति कपिपदावृत्त्यान्वयः कार्यः । तेन सुग्रीव वं प्रावृट्काले गतेऽपि मत्कृतसंकेतानुसारेण सीताशोधनार्थ नैव प्रयतस इति कृतघ्नत्वादुन्मत्तत्वाच मर्कटजातीयगुणवानेवासि नतु खरदूषणहन्तुमैत्रीपात्रमसीति द्योतयन्सन्नित्यर्थः । बन्धुं अपेरत्रापकर्षः । लक्ष्मणाख्यभ्रातरमपीत्यर्थः । एतेन श्रीरामे सीताविरहातुरत्वेन तदन्वेषणलक्षणकार्याकुलत्वं द्योतितम् । योजयामास नियोजितवानित्यर्थः । श्रुतिशिरोऽनवगोचरोऽपि परमेश्वरो भक्तभरणार्थमतिदैन्यमपि नाटयतीति महदद्भुतं भक्तिवैभवमिति भावः । अत्र वेदान्तेत्यादिपदैः शक्तिवृत्त्यैव महानुभावभावनीयमाहात्म्यस्य भगवतः प्रोक्तदैत्यमनुचितमेवेतिवदद्भिर्विषमालंकारो ध्वनितः।शिष्टं तु पूर्ववदेव बोध्यम्।अत्रानन्तगुणः करुणो नायकः। शान्ताद्भुतभक्तिकरुणा रसाः । असंभवालंकारः ॥ १० ॥ ततस्तमेवार्थशक्तिमूलमुदाहरति–जगत्प्राणेति । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमराज्जगप्राणो वायुस्तस्य सुतो हनुमान् तेनोकेन कथितेनेत्यर्थः । अत्र यद्यपि प्रभञ्जनेत्यपि वक्तुं शक्यं, तथापि तस्य प्रकृतविरुद्धार्थसूचकत्वात्तद्विहाय जगत्प्राणेत्युक्तम्, तेन विश्वात्मनो रामचन्द्रस्य जानकीविरहमहाव्याधेः सकाशादुज्जीवनार्थ जगत्प्राणसुतवचनामृतं युक्तमेवेति ध्वनितम् । तत एव श्रोत्रपात्रतः श्रवणमणिचषकाभ्यामित्यर्थः । पीतेन प्राशितेनेति यावत् । अस्ति सीतेति । सीतेति पदं प्रथममुच्चारितं चेकिं मृतेति वदिष्यत्यग्रे इत्याद्याशङ्कया द्वितीयपदश्रवणतः प्रागेव श्रीरामः खधाम प्राप्स्यतीति संभावनया प्रथममस्तिपदं प्रयुज्यैव ततः सीतेति पदघटितेन वाक्येनेत्यर्थः । रामोऽपि अत्रापिना रमन्ते योगिनो यस्मिन्निति विग्रहो बोध्यः । सच्चिदानन्दाद्वैतात्मरूपत्वेन नित्यामृतस्वप्रकाशपरमात्मापि भक्तभावनया हर्षाद्यपि नाटयतीति विचित्रं भक्तितत्त्वमिति द्योतितम् । अमरतां मरणहीनतां नतु अखप्नतामित्यर्थः । अगादलभदिति यावत् । निरुक्तवाक्यश्रवणेन प्राप्तजीवितत्वात्तद्धर्षवशात्कालान्तरेऽपि मृत्युशून्य एव बभुवेति भावः ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy