________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
राक्षसोत्तप्तरक्तेन रक्तेन युधि धावता। रावणस्य हताः प्राणाः सीताशोकाग्निना सह ॥ १२ ॥ भरतानन्दसंदोहवेलावृद्धिमुपेयुषी।
कल्लोलैरुल्लसद्रामचन्द्रमप्यभ्यषेचयत् ॥ १३॥ अत्र पीतेनेति श्रोत्रेति अमरेति च पदैरर्थशक्त्या निरुक्तवाक्यस्यामृतत्वसूचनाद्रूपकं लुप्तोपमा वालंकारो ध्वानेतः । अन्यत्सर्व प्राग्वदेव । अत्र विरही नायकः । विप्रलम्भः शृङ्गारः। भक्तिः शान्तश्च रसः । परिकरपरिकराङ्कुरादयोऽलंकाराः ॥११॥ एवं शक्तिमूलान्पञ्च ध्वनिभेदानुदाहृत्याधुना क्रमप्राप्तं लक्षणामूलं ध्वनिभेदद्वयमविवक्षितवाच्यापरनामकं समुदाहरन्प्रथमं तावदजहल्लक्षणामूलमर्थान्तरसंक्रमितवाच्यं ध्वनिभेदमुदाहरति-राक्षसेति । राक्षसानां यत् उत्तप्तं क्रोधाग्निज्वलितशरीरनिःसृतत्वलक्षणेनोत्कर्षण तप्तमुष्णं यद्रक्तं रुधिरं 'रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । तेनेत्यर्थः । रक्तेन अरुणवर्णन युधि धावनपूर्वकं रावणप्राणहरणादिकार्यकारित्वस्यारक्तवर्णस्य सुतरामसंभवादजहत्स्वार्थलक्षणया निरुक्तशोणितकर्तृकारक्तवर्णगुणकेन श्रीरामबाणेनेत्यर्थः । एते व्यधिकरणे एव कर्तरि तृतीये । एतादृशेन बाणेन युधि संग्रामे धावता महावेगवत्तरत्वाद्धावनमिव कुर्वता सतेत्यर्थः । रावणस्य प्राणाः सीताशोकाग्निना सहैव हृताः स्युरिति संबन्धः । उक्तप्राणानां वायुविशेषत्वादुक्तशोकानेस्तत्सखत्वात्तेन सहैव तदपहरणं श्रीरामबाणेन युक्तमेव कृतमिति तात्पर्यम् । एतेन राक्षसेति तज्जातिवाचकपदाद्रक्वेनेत्येकवचनाच्चैकेनापि श्रीरामबाणेन निखिलरक्षःक्षपणपूर्वकं रावणप्राणहरणं सीताशोकोपशमनं तुल्यकालमेव कृतमित्यद्भुतं श्रीरघुवीरपौरुषमिति रक्तपदनिष्ठाऽजहत्वार्थलक्षणया ध्वनितम् । तेनेदमर्थान्तरे रक्तपदार्थादितरस्मिन् शरे संक्रमितवाच्यत्वादुक्तध्वन्युदाहरणमिति लक्षणसमन्वयः । अत्र धीरोदात्तो नायकः । रौद्रो रसः । सहोक्त्यलंकारः । तदुक्तम्-'सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह' इति ॥ १२ ॥ एवं शोणो धावतीतिवदजहत्स्वार्थाख्यलक्षणामूलमर्थान्तरसंक्रमितवाच्याभिधं ध्वनिभेदमुदाहृत्याथ गङ्गायां घोष इत्यादिवत् जहत्स्वार्थाख्यलक्षणामूलमत्यन्ततिरस्कृतवाच्याभिधं सप्तमत्वेन चरमं तमुदाहरनुत्तरकाण्डाथै संक्षिपति-भरतानन्दति । भरतः श्रीरामभ्राता प्रसिद्ध एव तस्य ये आनन्दाः हर्षास्तेषां यः संदोहः 'समूहे निवव्यूहसंदोहविसरव्रजाः' इत्यमरात्समुदायस्तस्य वेला समुद्रतीरमर्यादाभूमिः । 'वेला काले जलनिधेस्तीरे वीरविकारयोः । अक्लिष्टभरणे रागे सीम्नि वा विबुधस्त्रियाम् । भोजनेऽपीश्वराणां स्यात्' इति विश्वोतेलापदं यद्यप्यनेकार्थकमेव, तथाप्यत्र कल्लोलपदसमभिव्याहाराद्रामे चन्द्ररूपत्वाभिधानाच समुद्रमर्यादापरमेव गृह्यते । तस्यैव चन्द्रदर्शने कल्लोलैर्वृद्धिसंभवादिति ज्ञेयम् । नन्वस्तु नामैवं तथापि समुद्रमर्यादासावुक्तानन्दसंदोहसंव