________________
सरसामोदव्याख्यासहितम् ।
अद्य जिज्ञासुभिर्ब्रह्मध्यानमेव निषेव्यताम् । इति दर्शयितुं नूनं बुद्धो योगोश्वरोऽभवत् ॥ ११ ॥ इतो म्लेच्छोच्छलद्रक्तसिक्तं दिग्दन्तिमण्डलम् । इति नन्दकनिर्देशो ऽवतादविरतं सतः ॥ १२ ॥
इन्दिरारत्नम् ३]
७७
मन्थरसमीरः स यत्रेति तथा । एतादृशमस्तीति शेषः । तस्मादिदं वसन्तैकान्तादिनिखिलोद्दीपनविभावसामग्रीयुक्तत्वेनातिरमणीयं विलासस्थलमतोऽत्र रमस्व मया सहाधुनेति भावः । अत्र हरे इति संबोधनान्मन्मथव्यथाहरणनिपुणत्वं ध्वनितम्। तथा मिलिन्देति पदेन भ्रमरवत्तवापि कृष्णत्वात्त्वत्सुखनिदानमिदं स्थानमिति सूचितम् । एवं कलिन्दनन्दिनीपदेनापि तद्वद्वृषभानुनन्दिन्याः मम संबन्धि मन्दानिलतुल्यसंचारचारुतरमित्यतोऽपि तथास्तीति द्योतितम् । तेनाहं पितृगृहवासिन्येव संप्रत्यस्मि नतु श्वशुरगृहवासिनीति यथेच्छक्रीडायामवसरबाहुल्यं व्यज्यते । अत्र देशनिमित्तकमेवेदं राधोत्कण्ठाव्यञ्जनमिति हृदयम् । यथावा काव्यप्रकाशे - 'उद्देशोऽयं सरसकदली श्रेणिशोभातिशायी कुरितरमणीविभ्रमो नर्मदायाः । किंचैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता एषामग्रेसरति कलिताकाण्डकोपो मनोभूः' इति ॥ १० ॥ ततः कालनिमित्तकं तदुदाहरति—अद्येति । कलियुगे इत्यर्थः । जिज्ञासुभिरद्वैतात्मतत्त्वं ज्ञातुमिच्छुभिर्मुमुक्षुभिरिति यावत् । ब्रह्मध्यानमेव ब्रह्मणः सच्चिदानन्दाद्वैतात्मवस्तुनः ध्यानं तत्र 'प्रत्ययैकतानता ध्यानम्' इति पातञ्जलसूत्रोक्तलक्षणमुक्त - लक्षणे ब्रह्मणि विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहीकरणमेवेत्यर्थः । अवधारणमत्र 'पार्थ एव धनुर्धरः' इत्यादिवदन्ययोगव्यवच्छेदकमेव । तेन कर्मादिसाधनान्तरप्रत्याख्यानं फलितम् । निषेव्यतां नितरां सेवनीयमित्यर्थः । कलौ द्रव्यादिशुद्ध्यसंभवेनाग्निहोत्रादिकर्मणां साङ्गत्वासंभवात्तत्त्वानुसंधानमेव मुमुक्षुभिः सर्वदा कर्तव्यमिति भावः । नूनं निश्चितम् । बुद्धः बुद्धावतारः योगीश्वरः योगीन्द्रः तस्योक्तरूपत्वेन योगसाधने स्वप्रयोजनाभावेऽपि लोकानुग्रहार्थमेव स्वयं तथानुष्ठानपरो बभूवेति भावः । तस्मात्कलावद्याद्वैतात्मचितनं विना नान्या गतिरिति कालरूपनिमित्तेन व्यज्यते । नच कृतादावप्येतदेव जिज्ञासूनां साधनमिति वाच्यम् । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा - ऽनाशकेन' इति ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इतिच श्रुतिसूत्राभ्यां कर्मादेर्विहितत्वेन तदानीमुक्तध्यानादिसद्भावेन तेषां साङ्गत्वसंभवात् । तस्माद्युक्तमेवोक्तध्यानं संप्रतीति दिक् ॥ ११ ॥ इदानीं चेष्टानिमित्तकं तदुदाहरति- इत इति । इदं हि भगवन्, इतः परं कलावत्र परमोन्मत्तानां सर्वत्र प्रसृतानां म्लेच्छानां कथं क्षयो भविष्यतीति पृच्छन्तं कंचिन्नारदाद्यन्यतमभक्तं प्रति भगवतो वच - नम् | भो भक्त, म्लेच्छोच्छलद्रक्तसिक्तं दिग्दन्तिमण्डलं इतः भविष्यति इति नन्दकनिर्देशः । सतः अविरतं अवतादिति संबन्धः । म्लेच्छानां यवनादीनां