________________
साहित्यसारम् ।
[पूर्वार्धे तर्पितापि मया मेयं क्षत्रस्त्रीनेत्रवारिभिः। पुनस्तद्वीजपादैः सा प्रत्यहं ताप्यते बत ॥ ८॥ स्वहन्तुश्चापि निर्भङ्गं विशायैव स्मरोऽकरोत् । सीताभूधनुषी कोटिगुणसाम्राज्यशालिनी,॥९॥ माकन्दगन्धमाधुर्य मिलिन्दानन्दमन्दिरम् ।
कलिन्दनन्दिनीमन्दानिलं वृन्दावनं हरे ॥ १० ॥ तस्मात्त्वयास्मै न किमपि देयमित्याशयः । वित्ताशा हि महतोऽपि लाघवहे. तुरिति तत्प्रागभावपरिपालकं तदेव रक्षणीयमिति ॥ ७ ॥ एवमन्यसंनिधिनिमित्तकं तदुदाहरति-तर्पितेति । इदं तु दिग्विजयमेकविंशतिवारं भूमेः क्षत्रशून्यत्वकरणेन संपाद्य क्वचिद्गङ्गातीरे मध्याह्ने स्थितस्य परशुरामस्य कंचिनिकटवर्तिनं मुनि प्रति भाषितम् । भो मुनीन्द्र, मया महामहिम्ना भार्गवरामेण । एतेन गर्वातिशयः सूचितः । इयं प्रत्यक्षमा पृथ्वी क्षत्रस्त्रीनेत्रवारिभिः यावतक्षत्रियदयिताश्रुभिः तर्पितापि तृप्तिं नीतापि। शीतलीकृतापीत्यर्थः। बतेति खेदे। सा पूर्वोक्तविशेषणविशिष्टा पृथ्वी तद्वीजपादैः तस्य क्षत्रियकुलस्य यद्वीजं सूर्याख्यं निदानं तस्य पादैः किरणैः । अत्र पादपदात्परमासह्यत्वं ध्वनितम् । पुनः अनन्तरं प्रत्यहं नतु क्षणमात्रं ताप्यते । संतप्तीक्रियत इत्यर्थः । तस्मादनेन भानुना सावधानेन भाव्यमिति भावः। अत्रान्यस्य सूर्याभितप्तभूभागाभिधस्य तटस्थस्य संनिधानादितः परं तं प्रति स्वरोषविषयत्वं द्योतितम् ॥ ८॥ ततः प्रकरणनिमित्तकं तदुदाहरति-स्वहन्तुरिति । स्मरः कामः स्वहन्तुः मदनान्तकस्य शभोरित्यर्थः । चापनिर्भङ्ग कोदण्डखण्डनं विज्ञायैव ज्ञात्वैव । अत्रैवकारेण रामस्य स्वशत्रोरपि धनुर्भञ्जकत्वेनात्यन्तमजय्यत्वात्तदुपेक्षानहत्वेन तजयसा. मग्रीसंपादनप्रवृत्ती कामे द्रुतवं व्यज्यते । सीताभ्रूधनुषी जानकीभ्रुकुटिद्वयसूचकं द्विवचनम् । कोटीति । कोटयः असंख्या ये गुणाः परमोल्लासेनोच्चत्वादयः प्रमोदाद्यवद्योतकास्तैर्यत्साम्राज्यं सर्वाधिक्यं तेन शालिनी शोभमाने इत्यर्थः । पक्षे कोटीस्तदग्रभागान्प्राप्तौ यौ गुणौ प्रत्यञ्चे ताभ्यां यत्साम्राज्यं तेन शालि. नी इत्यर्थः । एतादृशे अकरोच्चकारेत्यर्थः । अत्र सीतायाः श्रीरामविषयकरतिव्यञकप्रमोदः प्रकरणेन ध्वन्यते ॥ ९ ॥ अथ देशनिमित्तकं तदुदाहरतिमाकन्देति । इदं हि श्रीकृष्णं प्रति राधिकावाक्यम् । हे हरे, इदं वृन्दावनं संप्रति माकन्दगन्धमाधुर्य माकन्दानामाम्राणां यो गन्धः तत्कुसुमगन्धस्तेन माधुर्य यस्मिंस्तत् । आम्रसौरभ्यरम्यमित्यर्थः । आम्रकुसुमसौरभ्यस्यापि मिष्टत्वेन तत्संपळदुतवनस्यापि तथावमिति तात्पर्यम् । अतएव मिलिन्दानन्दमदिरं मिलिन्दाः भ्रमरास्तेषां य आनन्दः हर्षस्तस्य मन्दिरं स्थानमित्यर्थः । एवं चोक्तविशेषणाभ्यां पार्थिवशोभाभरो ध्वनितः । अथाप्यं वायवीयं च तमाह-कलिन्देति । कलिन्दनामा कश्चित्पर्वतः तस्य नन्दिनी यमुना तत्संबन्धी यः मन्दानिलः