SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ इन्दिरारत्नम् ३] सरसामोदव्याख्यासहितम् । दक्षिणाशासमायातः सदा संयमनाग्रणीः। फुल्लनीलोत्पलश्यामः कामं भूमापि वामनः ॥ ७ ॥ द्वमित्यर्थः । एतादृशमपि मे अझं शरीरं मस्तकादिगात्रमितियावत् । 'अङ्गं गात्रान्तिकोपायप्रतीकेषु प्रधानके' इति विश्वः । अहो इत्याश्चर्ये । किं लिहसि। भूयः स्वरसनया किमित्याखादयसीवेत्यर्थः । निरुक्तधातुमात्रमयत्वेनैतस्यात्यन्तजुगुप्सितत्वान्नेदमस्य परमप्रेम्णा गोवत्सन्यायेन लिहनं नित्यानन्दैकरसस्य लक्ष्मीविलासस्य भगवतो भवतोऽस्त्युचितमिति तात्पर्यम् । ततः श्रीनृसिंहः किं लिहसीति प्रहादपृष्टमुक्ताङ्गाखादनप्रयोजनमाह-दशमस्येत्यादिना । दशमस्य शृङ्गारादिनवरसापेक्षया दशमसंख्याकस्येत्यर्थः । रसस्य भक्तिसंज्ञकस्येत्यर्थः । वक्ष्यति च-'रसं भक्त्याख्यमप्याहुर्भक्ताः शाण्डिल्यवर्त्मगाः' इति । पक्षे मधुरादेरित्यर्थः । एवकारेण प्रयोजनान्तरव्युदासः । अयमाशयः-अये प्रह्लाद, यत्त्वया पृष्टं भो नृहरे, त्वगादिसप्तधातुमयं मदङ्गं कस्मै प्रयोजनाय लिहसीति, तत्रेदमुत्तरम्-तव स्थूलमपि शरीरं हृद्गतभक्त्युद्रेकात्सर्वदा रोमाञ्चादिसाखिकभाववत्त्वेन भक्तिरसमयमेवेति तदाखादनार्थमेव तल्लिहामि न त्वन्यप्रयोजनार्थमिति । इतीति । निरुक्ता वाक् भगवतः प्रह्लादं प्रति प्रत्युत्तररूपा वाणीत्यर्थः । अजयत् । निखिलशब्दब्रह्मतोऽप्युत्कर्षणावर्तदित्यर्थः । अत्र प्रह्लादभक्तेरनुपममहिमत्वं व्यङ्ग्यम् । तच निरुक्तवाक्यनिमित्तकमेव ॥ ६ ॥ अथ वाच्यनिमित्तकं तदुदाहरति-दक्षिणेति । इदं हि शुक्रस्य बलि प्रति सूचकं वचनम् । अयं सदा संयमनाग्रणीरपि कामं भूमापि यतः दक्षिणाशासमायातः अतः कामं फुल्लनीलोत्पलश्यामः वामनश्च बभूवेत्यन्वयः । हे बले, अयं पुरोवर्ती नतु परोक्षः, सदा निरन्तरं नतु क्षणमात्रम् , संयमनाग्रणीः संयमय. न्ति नियमयन्ति इन्द्रियाणीति संयमनाः योगिनस्तेषां मध्ये अग्रणीमुख्य इत्यर्थः । पक्षे संयमयति शिक्षयति पापिष्ठानिति संयमनः यमस्तस्याग्रणीः पुरोवर्ती दूत इत्यर्थः । एतेन लोकदृष्ट्यायं योगीन्द्रोऽपि तव सर्वखापहारकत्वात्काल एवेति द्योतितम् । एवमपि काम अत्यन्तं भूमापि । 'यो वै भूमा तत्सुखम्' इति छा. न्दोग्यश्रुतेः 'भूमा संप्रसादादध्युपदेशाच' इति शारीरकसूत्राच्च अद्वैतानन्दैकरसः परमात्मापीत्यर्थः । एतेनास्य साधनावस्थैव वर्तते नतु फलावस्थापीत्युक्तिः परास्ता । तथाच वस्तुतोऽयं परमात्मापि लीलया सगुणत्वेऽपि सकलयोगीश्वरचक्रवर्तीति निवृत्तिसामग्रीपौष्कल्यं ध्वन्यते । यतः हेतोः दक्षिणाशासमायातः दक्षिणायाः यजमानदत्तवित्तादेः या आशा भावीष्टानुसंधानात्मिका मनोवृत्तिस्तया समायातस्त्वद्यज्ञवाट प्रति सम्यक् प्राप्तः । पक्षे दक्षिणदिक्सकाशा दागत इत्यर्थः । अतः हेतोः कामं इत्युक्तार्थम् । फुल्लेति । विकचेन्दीवरः नील: वामनः खर्वश्च बभूवेत्यर्थः । उक्तरूपस्यापि निरुक्ताशया कालिमा नीचता च संपन्नेति भावः । अत्रोक्तकालत्वव्यञ्जनं प्रतिपाद्य वामननिमित्तकमेव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy