________________
७४
साहित्यसारम् ।
[पूर्वार्धे सर्वसहा नवोढापि हिमहेमाचलस्तनी। अहहेति स्वभावेन वराहेणोद्धताऽवदत् ॥५॥ त्वगादिनद्धमङ्गं मे नृहरे किं लिहस्यहो।
दशमस्य रसस्यैवास्वादायेत्यजयद्वचः॥६॥ ध्वनितम् । तत्रापि क्रियमाणेऽपि नतु करिष्यमाणत्वेन कथ्यमानेऽपि । एवंच परमौत्सुक्यं द्योतितम् । अद्यापि पाणिग्रहमारभ्य भूरितरकाले गते सत्यपीत्यर्थः । एतेन खानुरागस्य क्षणिकत्वं व्युदस्तम् । एवमपि निद्रापगमः वः इत्यत्राप्यनुकर्षणीयम् । युष्मन्निद्राविराम इत्यर्थः । कूर्मतनुसंस्कृतेः अनुपदमेव समुद्रमथने मन्दराद्रिधारणाथै धृतकूर्मावतारसंस्कारादित्यर्थः । तज्जातेर्हि निद्राधिक्यस्य लोके प्रसिद्धवात् । 'निन्द्रालोः कमठाकृतेर्भगवतः श्वासानिला: पान्तु वः' इति श्रीमद्भागवतोक्तेश्च युक्तैवेयं कल्पनेत्याशयः । नाभूत्किमिति वितर्के । तस्मादितः परं विनोदं विहाय सपदि मदीयकामपूर्तिरेव कर्तव्येति भावः । तेनात्र ध्वनितायां श्रीरतौ निमित्तमुपदेश्यो भगवानेव । अन्यथा तदसंभवादिति रहस्यम् । यथावा मदीये नीतिशतपत्रे-'तारुण्यारोपितगुणे सुन्दरीभ्रूशरासने । नम्रत्वमेव संपाद्य जगज्जयति मन्मथः' इति । अत्र रसादिकं तु काव्यसामान्योदाहरणव्याख्यानोक्तदिशा स्वयमेवोह्यम् ॥ ४ ॥ इदानीं काकुनिमित्तकमुक्तव्यञ्जकलमुदाहरति-सर्वसहति । इदं हि साभिप्रायम् । सर्वसहनकर्तृत्वेन प्रसिद्धापीत्यर्थः । नवोढा । पृथ्व्यात्मिका नूतनोद्वाहिता दयितेत्यर्थः । एतेन वक्ष्यमाणकाको हेतुर्योतितः । वराहेण क्रोडरूपिणा विष्णुने. त्यर्थः । उद्धृतासती दन्ताग्रेणोध्वीकृता सतीत्यर्थः । एवंच व्यथोत्कर्षोऽपि तत्प्रयोजक इति सूचितम् । खभावेन नववधूत्वप्रकृयेत्यर्थः । अहहेत्यवदत् । निरुक्तहेतोः शोकभीत्यादिजनितध्वनिविकारात्मककाक्वाख्यधर्मान्वितानहहेति नि. पातसंज्ञान्वर्णानकूजयदित्यर्थः । नववधूवमेवोपपादयंस्तां विशिनष्टि-हिमेति । अयं भावः-यथा काचिनवोढा तावच्छृङ्गाररचनप्रावण्याभावाच्चाञ्चल्याच्चैकमेव स्तनं चन्दनेनालेपयति तदा तस्याश्चन्दनलेपाच्छुक्ल एकः स्तनो भात्यपरस्तु गौरत्वात्पीत एव, तद्वदियं हिमाचलस्य शुक्लत्वाद्धेमाचलस्य पीतत्वाचोभयोरपि परमकठिनत्वात्तत्स्तनीलेन युक्तैव नववधूरिति । अत्रोक्तकाक्वाख्यनिमित्तेन खस्यां सर्वसहात्वेऽपि तद्दन्तक्षतासहिष्णुतया सौकुमार्य ध्वनितम् । यथावा गीतगोविन्दे–'विपुलपुलकपालिस्फीतसीत्कारमन्तर्जनितजडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधायामन्दकन्दर्पचिन्तारसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी' इति ॥ ५॥ ततो वाक्यनिमित्तकं निरुक्तव्यञ्जकत्वमुदाहरति-नृहरे इति । इदं हि पूर्वार्धात्मकं हिरण्यकशिपुं हत्वा परमभक्त प्रह्लादं खाङ्के संस्थाप्योपाधिनैसर्गिकत्वात्प्रेम्णा तदङ्गानि जिह्वया लिहन्तं भगवन्तं प्रति तद्वाक्यम् । अयि नृहरे, त्वं त्वगादिनद्धं लगादिभिश्चर्मादिभिर्धातुभिर्नद्ध निब•