________________
साहित्यसारम् ।
[ पूर्वार्ध
इन्दिरारत्नम् ३ योक्ता व्यञ्जकता शक्याद्यर्थत्रय्या इति क्रमात् । तत्र वादिदशकं निमित्तमधुनोच्यते ॥१॥ वक्तोपदेश्यःकाकुश्च वाक्यं वाच्योऽन्यसंनिधिः । तथा प्रकरणं देशः कालश्चेष्टेति तत्क्रमः ॥२॥
अथ तृतीयं प्रकरणमारभमाणस्तस्य प्राक्तनप्रकरणेन सह संगतिं वक्तुं तदुक्तांशं संक्षेपेणानुवदति-योक्तेति । इतिशब्दः पूर्वोक्तानुवादी । निरुक्तरीत्येत्यर्थः । या क्रमात् अनुक्रमेण शक्याद्यर्थत्रय्याः शक्यलक्ष्यव्यङ्गयसंज्ञकार्थत्रयस्येत्यर्थः । पक्षे शक्यः कर्तुमकर्तुमन्यथा वा कर्तुं शक्यो धर्मः स आदिः प्रथमो येषामेतादृशा ये अर्थाः पुरुषार्थाः धर्मार्थकामाख्यास्तेषां या त्रयी तस्या इत्यर्थः । व्यञ्जकता व्यङ्गवार्थद्योतकता । उक्ता प्रतिपादितेत्यर्थः । पक्षे मोक्षाख्यस्याद्वैतब्रह्मात्मतत्त्वस्य चरमपुरुषार्थात्मकव्यङ्गयार्थस्य सूचकता 'धर्मे सर्व प्रतिष्ठितम्' इति, 'रातेतुः परायणम्' इति, 'प्रजातिरमृतमानन्द इत्युपस्थः' इति च श्रुत्या कथितेत्यर्थः । किं तेनेसत आह-तत्रेति । निरुक्तव्यञ्जकतायामित्यर्थः । वक्रेति । वक्ष्यमाणमित्यर्थः । पक्षे श्रोत्रादीनां सर्वेषामपीन्द्रियाणां निमित्तलावच्छिन्नत्वलक्षणकरणत्वसाधारण्येऽपि वक्रपदेन लक्षणया रसनेन्द्रियस्यैव प्रथमग्रहस्तु तद्गोलके रसनेतरवाक्वगाख्येन्द्रियद्वयस्यापि सत्त्वादिति बोध्यम् । तेन ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं चेत्यर्थः । निमित्तं निमित्तत्वावच्छेदेन प्रत्येकं निमित्तकारणमित्यर्थः । अधुना अद्य तृतीयप्रकरणावसरे । उच्यते कथ्यत इत्यर्थः । अयं भावः-पूर्वप्रकरणे यच्छक्याद्यर्थानामर्थान्तरव्यञ्जकत्वमुक्तं तत्र किंचिनिमित्तमस्ति न वा । नान्त्यः । अतिप्रसङ्गात् । आये तत्किमेकविधं बहुविधं वा । अत्येऽपि किं तत्समुच्चितमसमुचितं वेत्याशङ्कायां तत्र वादीनि 'वक्तृबोद्धव्यकाकूनाम्' इत्यादिकाव्यप्र. काशकारिकादिप्रसिद्धानि प्रत्येकं विभिन्नानि दश निमित्तानि सन्तीति तत्कथनं प्रतिज्ञातमिति । पक्षे नच 'यच्छ्रोत्रेण न शृणोति' इत्यादिश्रुतेः । 'सुखमात्यन्तिक यत्तद्बुद्धिग्राह्यमतीन्द्रियम्' इति स्मृतेश्च कथमिन्द्रियाणां धर्मादिकर्तृकब्रह्माद्वैतरूपमोक्षव्यञ्जने निमित्तत्वमिति वाच्यम् । यद्यपि अविद्याध्वंसद्वारा ज्ञानस्यैव साक्षात्तद्यञ्जकत्वेऽपि 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति न्यायेन धर्मादीनां चित्तशुद्ध्यादिपरम्परया तयाने श्रोत्रादीनामपि द्वारवरूपनिमित्तत्वसंभवात् । तेनात्रोपमात्वेन प्रकृतोपयुक्तश्लेषोऽलंकारः ॥१॥ किं तदि. तिचेत्तदुद्दिशति-वक्तेति । उपदेश्यः संबोध्यः ‘काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरोक्तः कण्ठध्वनेर्विकारः काकुः वाच्यः प्रतिपाद्यः पदार्थः । अन्येति । अन्यस्य तटस्थस्य वक्तृबोद्धव्येतरपुरुषस्य संनिधि कट्यम् ।