SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । एवं साधारणः सिद्धो व्यङ्गयार्थोऽयं चतुर्विधः । शत्तयादिमूलगूढादिभेदात्सव्यञ्जकोऽपि च ॥ १३५ ॥ स्वोत्साहस्तु फलत्येव श्रेयांसि सकलान्यपि । अपर्णाऽन्योपदेशात्कि प्रापैक्यं प्रेयसोऽनिशम् ॥ १३६ ॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । शब्दार्थविवृतिकरणं द्वितीयमैरावताभिधं रत्नम् ॥ २॥ बाग्वदेव । अत्र विकसितेति पदे फुल्लत्वरूपपुष्पधर्मोक्तेः पद्मिनीत्वेन सुगन्धम्मितवती बभूवेति व्यायं गूढम् । प्राणेश्वरेति पदे तत्सर्वस्वं त्वरूपं व्यङ्गयमगूढमेवेति तात्पर्यम् । सत्यादि निरुक्तदिशा स्वयमूह्यादिति शिवम् ॥ १३४ ॥ ततः सुबोधार्थ निरुक्तव्यङ्गयार्थ संपिण्डीकृत्य गणयन्नुपसंह रति-एवमिति । साधारणः सामान्यः । तेन वक्ष्यमाणास्तद्विशेषाः सन्तीति सूचितम् । तत्र हेतुमाह-शत्यादीति । शक्तिमूलगूढागूढव्यङ्गयो लक्षणामूलगूढागूढव्यङ्गयो चेति चतुर्विधभेदसलादित्यर्थः । 'सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीप्यते' इति काव्यप्रकाशकारिकोक्तस्तस्यापि व्यजकत्वं विधत्ते-स इति । योयं चातुर्विध्येन संप्रति निर्दिष्टः सामान्यतो व्यङ्गयार्थः व्यञ्जक इति न केवलं व्यङ्गय एवायं किंतु व्यङ्गयान्तरावद्योतकोऽपीत्यर्थः । अपिचेति निपातौ समुच्चयाौँ । नचैवं व्यङ्ग्यार्थस्यापि व्यजकत्वेऽनवस्थेति शङ्कयम् । यावदर्थानुभवान्यथानुपपत्तिमात्रादेव तथात्वस्येष्टत्वेनाने धावनस्यानुपयुक्तत्वात् । तन्मायुक्तमेवोक्तव्यजकत्वमिति तत्त्वम् ॥१३५॥ क्रमेण तमुदाहरति-स्वेति । इदं हि मानिनीं राधां प्रति भगवप्रेषितदूतीवाक्यम् । अक्षरार्थस्तु स्फुट एव । तस्मात्तदुत्साहं विना मदुपदेशो विफल एवेति भावः । अत्र फलतीत्यत्र फलनिष्टपरिपाकपूर्वकमधुररसदातृत्वस्य सोत्साहे शक्तिमूलगूढव्यञ्जनया ध्वननात्स एव त्वया संपाद्य इति द्योतनादायो व्यङ्गयो व्यञ्जकश्वार्थः । संपन्नः एवं द्वितीयपादेऽपि श्रेयसां साङ्गत्वसूचकसकलपुमर्थसाधना अपि चतुर्विधपुमर्थाः खोत्साहैकसाथ्या इति तन्मूलागूढव्यञ्जनया द्योतनात्तस्मात्त्वया न तदनादरहेतुनामानेन स्वार्थध्वंसः कार्य इति सूचनाद्वितीयोऽपि, तथा अपर्णेति पदेन त्वया निरुक्तोत्साहाथ परमं तपः कर्तव्यमिति यो लक्षणामूलगूढव्यङ्गयार्थव्यञ्जनात्तेनेतः परमहं नैवोपदिशामीत्यौदासीन्यस्य यूचनात्तृतीयोऽपि तद्वदैक्यमित्यत्रार्धाङ्गभाक्त्वपूर्वकनिरतिशयानन्दत्वस्य तन्मूलागूढव्यञ्जनया ध्वननात्ततस्त्वमपि विमूढ़वासि यच्छुष्कमानेनेटक्सुखमपि त्यजसीति धिक्कारव्यञ्जनादन्त्योऽपि सिद्ध इत्याशयः । अर्थान्तरन्यासोऽलंकारः॥१३६॥ शब्देति । पक्षे शब्दो घण्टानाम् । अर्थः संपत् ॥ १३७ ॥ इति ऐरावताभिधं द्वितीयं प्रकरणं संपूर्णम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy