SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ - साहित्यसारम् । [पूर्वार्धे अपि पूर्वनिपातश्च विभक्तिः कापि तद्धितः। निपाताश्चादयः प्राद्या उपसर्गास्तथैव च ॥ १३०॥ सर्वनामाव्ययीभाव इमनिच्प्रत्ययस्तथा। आधारः कर्मभूताख्यो वर्णाश्च रचनास्तथा ॥ १३१॥ प्रबन्धाश्च कविप्रौढोक्ती रसो वस्त्वलंकृतिः। संकरश्चापि संसृष्टिरिति दिग्दृस्थलेऽस्ति सा ॥ १३२॥ अभिधालक्षणामूलत्वभिधासौ द्विधा यथा। राधया माधवेऽकारि स्वमुखामृतभद्युतिः ॥ १३३॥ सामान्यतो द्विधा व्यङ्ग्यमपि ग्रढादिभेदतः। सती विकसिता सद्यः प्राणेश्वरनिरीक्षणात् ॥ १३४ ॥ मस्तं गतः सवितेत्यादि, पदार्थः सीताकान्तादिः, वाक्यार्थः सूर्यकर्तृकखादर्शनकर्मकगमनानुकूलव्यापरविशेषादिः, धातुर्भूप्रभृतिः, सुप्तिौ प्रसिद्धौ । प्रातिपदिकं रामेत्यादि, कालो भूतादिः वचनमेकवचनादि ॥ १२९ ॥ चक्रचीवरमित्यादौ 'अल्पान्तरं पूर्वम्' इत्यादिशास्त्रसिद्धश्चक्रपदस्य पूर्वनिपातः प्रसिद्ध एव । विभक्तिः कापीति । अत्र कापीत्ययेन 'कालाध्वनोरत्यन्तसंयोगे द्वितीया' 'अपवर्गे तृतीया' इत्यादिशास्त्रविहितो विभक्तिविशेष इत्यर्थः । तद्धितः अङ्गकमित्यादौ कप्रत्ययादि: ॥ १३० ॥ इमनिच् तरुणिमेत्यादौ प्रसिद्धः । आधार इति । अधिवसति शिवमौलिं गङ्गेत्यादौ प्रसिद्ध एव । वर्णादिकं वने मूल एव स्फुटीभविष्यति ॥ १३१ ॥ दिगिति । अष्टाविंशतिस्थले ॥ १३२ ॥ एवं निर्दिष्टस्थानायास्तस्याः सामान्यतो द्वैविध्यं बोधयति-अभिधेति । शक्तिमूलत्वलक्षणामूलवरूपभेदाभ्यामित्यर्थः । असौ पूर्वोक्तरूपा व्यञ्जना । द्विधा द्विःप्रकारा भवतीत्यर्थः । उभयरूपांतामुदाहरति संक्षेपेण यथेत्यादिना क्रमेणैकेनैव वाक्येन। राधया प्रसिद्धया, पक्षे 'राधा विशाखा' इत्यमराद्विशाखयेत्यर्थः ।माधवे लक्ष्मीरमणे। श्रीकृष्ण इत्यर्थः । पक्षे 'वैशाखे माधवो राधः' इत्यमराद्वैशाखे मासीत्यर्थः । स्वेति । स्वस्याः यन्मुखं तदेव अमृतभः सुधादीधितिः तस्य या द्युतिः निजवदनेन्दुकान्तिरित्यर्थः । पक्ष खस्याः मुखमिव मुखमेतादृशो यः अमृतभश्चन्द्रस्तस्य द्युतिः वैशाखराकायां विशाखाख्यतारानिकटवर्तित्वेन चन्द्रस्य युक्तमेव तन्मुखस्वरूपमिति तत्कौमुदीत्यर्थः । अकारि कटाक्षेण तदीक्षणार्थ क्षणं तत्सांमुख्यसंपादनेन प्रसारितेत्यर्थः, पक्षे, तदानीं तस्य पूर्णत्वाद्विस्तारितेत्यर्थः । अत्र राधामाधवपदाभ्यामनेकार्थकत्वेनोपमार्थप्रकृतोपयुक्तश्लेषात्सूचितविशाखादौ शक्तिमूलव्यञ्जनैव । उक्तस्थले शक्तिनियामकसयोगाद्यभावात् । तथा स्वमुखेत्यादौ तिर्यगवलोकने जहल्लक्षणा तथा प्रतीयमानरतौ तन्मूला व्यञ्जनैवेति भावः ॥ १३३ ॥ अथ व्यङ्गयार्थमपि द्वैविध्येन संक्षिपति–सामान्यत इति । एतेन तद्विस्तरस्त्वग्रे भविष्यतीति द्योतितम् । गूढादीति । आदिपदादगूढम् । तदुदाहरति-सतीत्युत्तरार्धन क्रमेण
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy