________________
६९
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
पदं वाक्यं पदार्थश्च वाक्यार्थो धातुरप्यथ ।
सुप् तिङ् च प्रातिपदिकं कालो वचनमेव च ॥ १२९ ॥ तथाचोपसंहारेऽपि धीरैकमिति पदेन च सूचितम् । फलं तु तत्र व्यङ्गयार्थबोध एव । एवंच स्फुट एव निमित्तादिभेदो वृत्त्यन्तराङ्गीकारप्रयोजक इत्याशयः । पक्षे दृष्टिद्वयस्य निमित्तमवलोकनेच्छाफलं तु रूपिज्ञानम् । तथा स्मितद्युतेनिमित्तं प्रियदर्शनादिफलमपि रोमाञ्चादिप्रसिद्धमेवेति तत्रापि युक्त एव निमित्तादिभेदः । दृष्टीति । अत्र दृष्टिपदवाच्याभ्यां शक्यलक्ष्यज्ञानाभ्यां लक्षणया तद्धेतुभूतं शक्तिलक्षणाख्यवृत्तिद्वयं विवक्षितं तत इतराभिनेत्यर्थः । पक्षे 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी' इत्यमरोक्तेर्लोचनद्वयभिन्नेत्यर्थः । एतादृशी तथा। धीरैकेति । धियं बुद्धिमीरयन्ति सूक्ष्मतमार्थे प्रेरयन्ति ते तथा तैः एकं केवलं गम्या प्राप्या द्वयभिन्नेत्यर्थः । सहृदयमात्रवेद्येति यावत् । पक्षे रसिकमात्र विज्ञेयेत्यर्थः । एतादृशी वदने भाषणे तत्रत्व. पदादावित्यर्थः । पक्षे मुखे । व्यञ्जना एतन्नाम्नी पूर्वोक्तलक्षणा तृतीया शब्द. वृत्तिः । तथा स्मितद्यतिः स्मितस्य मन्दहास्यस्य द्युति: मुखविकासप्रसृतसूमदन्तकान्तिरित्यर्थः । सिद्धा निर्विवादाभूदित्यन्वयः । अत्र धीरैकगम्ये. त्यनेन यदीयं निरुक्तयुक्तिभिर्व्यञ्जनाख्या तृतीया शब्दवृत्तिरस्ति तर्हि कि मिति तार्किकचक्रवर्तिभिरपि शितिकण्ठदीक्षितादिभिरसौ नैव स्वीकृतेत्युक्तिः प्रत्युक्ता । तेषां द्रव्यादिविचारांशे तथात्वेऽपि शब्दादिविचारादावतथात्वात् । तत्र वैयाकरणादीनामेव पटुत्वाच्च । अत एवोक्तं नागोजीभैलघुमञ्जूषायां तल्लक्षणादि सा च वृत्तिस्त्रिविधा । शक्तिलक्षणा व्यञ्जना चेतीत्युपक्रम्य शक्तिल. क्षणयोलक्षणादिकं सप्रपञ्चं निरुच्य मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबन्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्रादिवैशिष्टयज्ञानप्रतिभायुद्बुद्धः संस्कारविशेषो व्यञ्जना । अतएव निपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च र्यादिभिरुक्ता । द्योतकत्वं च क्वचित्समभिव्याहृतपदीयशक्तिव्यञ्जकत्वमिति वैयाकरणानामप्येतत्स्वीकार आवश्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरच. नाचेष्टादिषु सर्वत्र तथैवानुभवात् वक्रादिवैशिष्टयज्ञानं व्यङ्गयविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तर इति । अत्रायं प्रयोगः-व्यञ्जनाशब्दे शक्तिलक्षणाख्यवृत्तिद्वयभिन्ना वृत्तिरस्ति । चतुरैकगोचरले सति तनिमित्तादिभिन्ननिमित्तादिमत्त्वात् । मुखे दृष्टिद्वयभिन्नस्मितद्युतिवदिति । घटादौ व्यभिचारवारणाय सत्यन्तम् । तावन्मात्रोक्तौ ब्रह्मणि स इति समस्तमुपात्तम् । तस्मात्तृतीया व्यञ्जनाख्या शब्दवृत्तिः सिद्धेति भावः ॥ १२८ ॥ एवं सोपन्यासं व्यञ्जनावत्तिमुपपाद्य न केवलमियं शब्द एव तिष्ठति किंवादावपि इति बोधयितुं तत्स्थानानां वक्ष्यमाणैर्भेदैरानन्त्येऽपि व्युत्पत्तिसौकर्याय प्रसिद्धानि तानि संक्षिप्योद्दिशति-पदमित्यादिचतुर्भिः। ससंख्यं पदं श्रीराम इत्यादि, वाक्य