________________
. साहित्यसारम् ।
[पूर्वार्धे नच संभावनैवेयं नतु निर्णय इत्यपि । शब्दान्वयादिना तत्र शाब्दत्वेस्यैव निश्चितेः ॥ १२७ ॥ ततो निमित्तादिभिदा सिद्धा दृष्टिद्वयेतरा ।
धीरैकगम्या वदने व्यञ्जना च स्मितद्युतिः ॥ १२८ ॥ आश्लेषः आलिङ्गनं तस्मात् । इयं हि ल्यब्लोपे पञ्चमी । स्वरमण्यालिङ्गनं विहायेत्यर्थः । यद्वा यथाश्रुतैवास्तु पश्चमी तथापि न क्षतिः । खोयालिङ्गनसकाशाधुत्थातव्यम् । शौचादिनित्यकर्मार्थ व्युत्थानं संपादनीयमित्यर्थः । कान्तपक्षे तु प्रियस्य खरमणस्येति व्याख्येयम् । इतिशब्दः शाब्दबोधानुवादसमाप्त्यर्थः । आदिपदेन अध्ययनायाद्य विलम्बः संपन्न इति तूर्ण स्नानादि विधेयमित्यादेः संग्रहः । शतमनेकविधः । नचात्रापि लक्ष्यत्वमेव । वक्तुराशयस्यैकविधत्वेन तद्भिन्ननानाविधशाब्दबोधेषु तात्पर्यानुपपत्तिरूपस्य लक्षणाबीजस्याभावादिति भावः । शेषं स्पष्टमेव ॥ १२६ ॥ ननु निरुक्तप्रकारेण तत्तदधिकारिभेदानानाविधानुभवकथनं यत्कृतं तत्संभावनामात्रमेव नतु तथा निर्णेतुं शक्यं, तेन कथं तत्र शाब्दत्वं येन तन्निर्वाहाथै वृत्त्यन्तरमवश्यमङ्गीकार्यमित्याशङ्कयोदितः सवितेति शब्दश्रवण एव तत्तदधिकारिषु तथा तथानुभवस्याप्रत्यक्षवात्तदभावे तदभावाच ततः किमिति नोक्तानुभवनिर्णयशक्यता, येन तत्र संभावनामात्रत्वेन तन्निर्वाहकवृत्त्यन्तरानङ्गीकृत्यापत्तिरिति । समाधत्ते-नचेति । इयं व्युत्त्थातव्यं प्रियाश्लेषादित्याद्यनेकानुभवकल्पनारूपा संभावनैव निश्चयशून्यैककोटिकज्ञप्तिरेवास्तीति शेषः।तु पुनः निर्णयः निश्चयः न नैवास्ति। परबुद्धेरप्रत्यक्षत्वादेवं निश्चेतुं केन शक्यत इत्यर्थः । इत्यपि । इतिशब्दः पूर्वपक्षसमाप्त्यर्थः । अपिशब्दः समुच्चयार्थः । एवमपि नच वाच्यमित्यव्याहृत्यसंबन्धेनैव वक्तव्यमित्यर्थः । तत्र हेतुमाह-शब्देत्युत्तरार्धेन । तत्र निरुक्तानुभवेषु निश्चिते निीतवादित्यर्थः । तस्माद्यु. कमेवात्र वृत्त्यन्तरखीकरणमिति तत्वम् । एतेन वस्तुतो व्यञ्जनायां गच्छ गच्छसीत्यत्र मा गा इत्यत्रास्यास्तात्पर्यमुन्नीयते संभाव्यते वा नतु मा गा इति निर्णीयते इति कृतं वृत्यन्तरेणेति मञ्जरीकारोक्तिरपि परास्ता । ममापि जन्म तत्रैवेत्यादिवाक्यशेषात्तत्रापि तथा निर्णयस्यैव दृष्टत्वादित्यलं पल्लवितेन ॥ १२७ ॥ एवं परमतनिराकरणपूर्वकं व्यञ्जनावृत्तौ संक्षेपतो युक्तिजातमुपपाद्य तां तुल्ययोगितया निगमयति-तत इति । निरुक्तयुक्तिलक्षणहेतुभ्य इत्यर्थः । हेवन्तरमप्याह-निमित्तेति । आदिपदात्फलादेः संग्रहः । निमित्तफला. दिभेदेनेत्यर्थः । तथाहि शक्तिग्रहे तावत् व्याकरणादिकं तथा नानार्थकशक्ती संयोगादिकं च निमित्तमिति प्रागेवोक्तम् । फलं तु तत्र शक्यार्थबोध एव तल्लक्षणायामपि तात्पर्यानुपपत्तिरेव निमित्तमित्यपि लक्षण एव तस्याः कथितम् । फलं तु तत्र लक्ष्यार्थबोध एव । एवं व्यञ्जनायामपि निमित्तं सहृदयनिष्ठवासनाविशेषपरिपाक एवेत्यपि तदुपक्रमे अमन्दानन्ददायिनीति पदेन,