________________
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
किंच वक्राशयवपुस्तात्पर्य वाच्यमेकधा । अन्यथा वाक्यभेदस्यापत्ति को वा निवारयेत् ॥ १२४ ॥ तथा चोदेति सवितेत्यादिवाक्यश्रुतेः परम् । तत्तच्छ्रोतृविभेदेन शक्यादभिन्न एव यः ॥ १२५॥ व्युत्थातव्यं प्रियाश्लेषादित्याद्याकारकः शतम् ।
शाब्दबोधो भवत्येष कथं वृत्त्यन्तराहते ॥ १२६॥ हरणे गङ्गापदे गङ्गायामिति शब्दरूपे इत्यर्थः । तीर एव नतु पावनत्वादावित्यर्थः । विपश्चिता गुणदोषविवेकशालिना विदुषेत्यर्थः । लक्षणा तात्पर्यानुपपत्तिमात्रेण शक्यसंबद्धबोधिका आरोपितशाव्दवृत्तिः ग्राह्या। स्वीकार्येति यावत् । तु पुनः पावनत्वे । उपलक्षण मिदं शैत्यादेरपि । पावयितृत्वादावित्यर्थः। व्यञ्जनैव अशक्यार्थसंबोधकशब्दैरेवेत्यर्थः । अवधारणेन लक्षणाऽग्रहनिरासः । सत्कार्या आदरणीयेत्यर्थः । अयमाशयः-~यदि वृत्त्यन्तराङ्गीकारगौरवभियात्र लक्षणैयेत्याग्रहस्तर्हि तात्पर्यद्वयं प्रयोजनद्वयं तथैकस्यावृत्तेरर्थद्वयबोधकत्वमावृत्तिा कल्पनीयेति महगौरवं तदपेक्षयोक्तवृत्त्यङ्गीकृति रेव रमणीयेति ॥ १२३ ॥ तत्रैवयुक्त्यन्तरमप्याह-किंचेति । वक्राशयेति । वक्तुर्बोद्धर्य आशयो रहस्यं तदेव वपुः स्वरूपं यस्य तत् । वक्तुराशयस्तात्पर्यमिति सर्वसंमतत्वात् तात्पर्य वक्तुराशय इत्यत्रापि प्रागुक्तत्वादुक्तलक्षणं यत्तात्पर्यं तदेकधा एकरूपं वाच्यं वक्तव्यमित्यर्थः । तेन कथं तीरे पावनत्वे च लक्षणासिद्धे तीर एव तात्पर्यात्तत्रैव लक्षणा स्यान्नतु पावनत्वेऽपि । तस्मात्तत्र व्यञ्जनाङ्गीकरण युक्तमेवेत्याशयः । नच कोऽयं नियमो यत्तात्पर्यस्यैकविधत्वमेवेति । तदस्तु तस्य बहविधत्वमपि का नः क्षतिरिति वाच्यम् । वाक्यभेदापत्तेः । तस्मादुतरीतिरेवावदातेत्याशयेनोक्तवैपरीत्ये दोषं विशदयति-अन्यथेति । उक्त. वैपरीत्ये तात्पर्यस्य बहुविधत्वे सतीत्यर्थः । वाक्येति । वाक्यस्य गङ्गायां घोष इति वाक्यस्य भेदः गङ्गातीरे घोष इति पावनत्वादिशालिाने गङ्गायाः तीरे घोष इत्याद्याकारको विभेदस्तस्येत्यर्थः । स्पष्टमन्यत् ॥ १२४ ॥ तत्राप्याग्रहेण तार्किकोक्तिमात्रश्रद्धाजडं प्रति विस्पष्टतयावश्यं व्यञ्जनाख्यं वृत्त्यन्तरं व्युत्पादयितुं तत्रान्यथापत्तिं सोदाहरणां विवृणोति–तथाचेति । इदंहि युक्त्यन्तरसमुच्चयार्थमव्ययद्वयम् । 'उदेति सविता' सूर्यः उदेति उदयं प्राप्नोति इति वाक्यश्रुतेः निरुक्तं देवदत्ताद्यचरितं यद्वाक्यं तस्य श्रवणादित्यर्थः । परं अनन्तरं तत्तदिति ते च ते श्रोतारश्चेति कर्मधारयः । तेषां यो विभेदो भिन्नत्वं तेनेत्यर्थः । ननु निरुक्तस्थलेऽपि शक्यादिरेवास्तु शाव्दवोध इत्यत आह-शक्यादेरियादिना ॥ १२५ ॥ ननु किमित्यसौ शक्यादिभिन्न इत्याशङ्कायां तत्स्वरूपं कथयस्तत्र हेतुमाह-व्युत्थातव्यमित्यादिना । प्रियाश्लेषात् प्रियायाः यावत्स्त्रीगुणवैशिष्टयेन स्वप्रीतिविषयीभूतायाः स्वसुन्दर्याः य