________________
साहित्यसारम् ।
. [पूर्वार्धे क्रमाद्वा युगपद्वापीत्युच्यतां तार्किकाधिपैः। । तीरे घोषः पावनं च तदित्येवाखिलानुभूः ॥ १२० ॥
नन्वस्तु पावनत्वादिविशिष्टे तीर एव सा। ताच्यमुक्ततीरस्य प्रतीतिर्लक्षणाफलम् ॥ १२१॥ ततो विशिष्टतीरत्वस्याज्ञातत्वात्पुरा कथम् । लक्ष्यतावच्छेदकत्वानुपपत्तिर्न वाऽपतेत् ॥ १२२॥ तस्माद्गङ्गापदे तीर एव ग्राह्यात्र लक्षणा ।
पावनत्वे तु सत्कार्या व्यञ्जनैव विपश्चिता ॥ १२३ ॥ नुभवः कुतो न भवतीति वाच्यमिति ॥ ११९ ॥ ननु जायत एवोक्तस्थले द्विःप्रयोजनत्वादिबुद्धिर्नेति केनोच्यत इति चेकि सा क्रमेण जायते युगपद्वा । तत्र नाद्य इत्याह-क्रमाद्वेति । गङ्गायां घोष इति वाक्यश्रवणोत्तरम् । जहल्लक्षणया तीरे घोष इत्येव ज्ञानं जायते, तदुत्तर तत्र पावनरूपमेकमेव लाक्षणिकपदप्रयोगस्य प्रयोजनमपि प्रतीयत इति सर्वानुभवसिद्धं, तत्कथं क्रमेण प्रयोजनद्वयत्वादिबुद्धिर्भवदुक्तिमात्रेण खीकार्येति तात्पर्यम् । नान्त्य इत्याहयुगपद्वापीति । अत्राप्युक्तानुभवविरोध एव हेतुर्बोध्यः । तस्मादस्मिन्प्रश्ने किमुत्तरं तदुपपादनीयं तार्किककोविदैः श्रीमद्भिरित्याह-इत्युच्यतामिति । अत्र तार्किकाधिपरित्युक्त्या ममात्रोत्तरप्रदानासामर्थ्येऽप्यनेकतर्ककुशलास्तहास्यन्तीत्युक्तिः प्रत्युक्ता । 'नहि श्रुतिशतमपि घटं पटयितुमीशते' इति न्यायादनुभवान्यथाकरणस्य तार्किकचक्रवर्तिनामपि दुर्लभत्वादिति भावः । तमेवानुभवमभिनयति-तीर इति ॥ १२० ॥ एवं चेत्तर्हि पावनत्वादिविशिष्टे एव तीरे लक्षणास्त्विति शङ्कते-नन्विति । सा लक्षणेत्यर्थः । एवं च न कोऽपि दोष इत्याशयः । तत्र गूढाभिसंधिरुत्तरमाह-तद्वाच्यमिति। तत्तस्मिन्पक्षे उक्ततीरस्य पावनत्वादिविशिष्टतटस्य प्रतीतिरुपस्थितिः लक्षणाफलं वाच्यमित्यन्वयः ॥१२१॥ननु कात्रापत्तिरुच्यत एवास्माभिनिरुक्ततीरप्रतीतिर्लक्षणाफलत्वेनेति तदभिसंधिमजानानस्य शङ्कां शमयन्खाभिसंधिमुद्घाटयति-तत इति । ततः विशिष्टतीरज्ञानस्यैवोक्तरीत्या लक्षणाफलत्वाद्विशिष्टतीरत्वस्य पावनत्वादिविशिष्टतटत्वस्येत्यर्थः । पुरा निरुक्तलक्षणाजन्योक्तलक्ष्यज्ञानात्पूर्वम् । अज्ञातत्वादननुभूतत्वात्। लक्ष्यतेति। लक्ष्यं पावनत्वादिविशिष्टं तीरं तस्य भावो लक्ष्यता तस्याः यदवच्छेदकं यावलक्ष्यसंग्राहकत्वेन परिच्छेदकत्वानियामकं सामान्यविशिष्टतटत्वादिरूपं तस्य भावो लक्ष्यतावच्छेदकत्वं तस्य या अनुपपत्तिःअसंपन्नतानिरुक्तलक्ष्यानुभवात्प्रागघटमानेत्यर्थः। साकथं न वा पतेत् । दोषत्वेन न प्राप्ता स्यादपि तु स्यादेवेत्यर्थः । नहि लक्ष्यतावच्छेदकज्ञानं विना लक्षणा भवतीति नियमात्तद्विनैव तदधिकारे तदनुपपत्तेर्दोषत्वं युक्तमेवेति तत्त्वम् ॥ १२२ ॥ एवं परमतं निरस्य खसिद्धान्तं बोधयतितस्मादिति । निरुक्तयुक्तिभिस्तार्किकादिमतस्य तुच्छत्वादित्यर्थः । अत्र प्रकृतोदा