SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ऐरावत रत्नम् २] सरसामोदव्याख्यासहितम् । तत्रानवस्थाभीत्या तज्ज्ञप्तिरेव प्रयोजनम् । वाच्यमेवं कुतो नात्र द्विः प्रयोजनतादिधीः ॥ ११९ ॥ ६५ नुसंधेयः । तस्मात् गङ्गायां घोष इत्यादिलक्षणायां शैत्यपावनत्वादि यत्प्रयोजनमस्ति तदनुभवार्थं तत्रापि लक्षणैव लाघवात्स्वीकार्या तु गौरवदुष्टा व्यञ्जनापीति तार्किकतत्त्वम् ॥ ११८ ॥ एवं गङ्गायां घोष इत्यादिलाक्षणिकव्यञ्जनास्थले तत्खण्डकं तार्किकमतमुपन्यस्य तन्निरासार्थं भूमिकां रचयतितत्रेति । निरुक्तरीत्या तार्किकैः स्वमतं यदुपपादितं तस्मिन्नित्यर्थः । अनवस्थेति । तथाहि गङ्गायां घोष इत्यत्र स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुजामह इति त्वदुदाहृतन्यायादेव तीरे घोष इति विहाय तीरे पावनत्वादिप्रतीत्यर्थं गङ्गायां घोष इति प्रयोज्यते । तत्र पावनत्वादिप्रतीतिरेव गङ्गापदस्य तीरे लक्षणायाः प्रयोजनं सिद्धम् । तदपि लाघवालक्षणयैव भवति तु व्यञ्जनयेत्युक्तं । तत्र लक्षणायाः सर्वत्र निरूढेतरत्वावच्छेदेन प्रयोजनवत्त्वनियमात्पावनत्वादौ लक्षणाया अपि प्रयोजनान्तरं किंचिदुच्येत चेत्तत्प्रतीत्यर्थमपि लक्षणान्तरं तत्रापि प्रयोजनान्तरमित्याकारा या अनवस्था तद्भीत्या तदप्रात्यर्थमिति यावत् । तथा चोक्तं काव्यप्रकाशे - 'एवमप्यनवस्था स्याद्या मूलक्षयकारिणी' इति । तेन किं तत्राह - तज्ज्ञप्तिरेवेति । तस्य पावनत्वादेः ज्ञप्तिर्ज्ञानमेव पावनत्वादिलक्षणाया अपि प्रयोजनं वाच्यम् । तार्किकेण त्वया वक्तव्यमित्यर्थः । ननु भ्रान्तोऽसि त्वं मञ्जर्यादावुक्तमेव तथा लक्ष्यप्रतीतेरेव प्रयोजनत्वादिति तत्किं न दृष्टं भवता यदेवं वदसीति चेत्सत्यम् । तथापि तत्खण्डनार्थमेव मया तदनूदितमित्याशयेन फलितमाह — एवमिति । निरुक्तरीत्या पावनत्वादावपि लक्षणाया एव स्वीकृत्या तत्प्रतीतेरेव प्रयोजनत्वाङ्गीकारे सतीत्यर्थः । तत्रानुभवविरोधरूपं दूषणं मनसि निधाय पृच्छति कुत इत्यादिनाग्रिमश्लोक पूर्वार्धान्तेन । तीरे पावनत्वज्ञानमेकं लाक्षणिक पदप्रयोगस्य प्रयोजनं । तथा पावनत्वे लक्षणाया अपि तदेव प्रयोजनमिति द्विविधम् । अत्रेति । गङ्गायां घोष इति प्रकृतोदाहरणे पावनत्व इत्यर्थः । द्विःप्रयोजनतादिधीः कुतो न जायत इति योजना । द्विःप्रयोजनतादिधीः द्वे च ते प्रयोजने च द्विःप्रयोजने तयोर्भावो द्विः प्रयोजनता सा आदिर्मुख्या यस्य गङ्गापदस्य तीरे पुनः पावनत्वादावपि लक्षणेति लक्षणाद्वयस्य तद्विः प्रयोजनतादि तस्य धीः ज्ञानम् । अनुभव इत्यर्थः । स कुतो न जायते कस्माद्धेतोर्न भवतीति प्रश्न इत्यर्थः । अयं भावः - किं गङ्गापदनिष्ठा एकैव लक्षणा तीरं पावनत्वादिकं च लक्षयति लक्षणान्तरं वा । नान्त्यः । तस्या एव व्यञ्जनात्वाभिधानात् । केवलं नाम्नैव विवादापत्त्या मन्मतस्यैव सिद्धत्वाच्च । नापि प्रथमः । अननुभवपराहतत्वात् । तथाहि । यदि गङ्गापदनिष्ठैकैव लक्षणा तीरं पावनत्वं च लक्षयति तर्हि तत्र पावनत्वादितज्ज्ञानं च प्रयोजनमस्तीत्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy