________________
૬૪
साहित्यसारम् ।
योपपादि गङ्गायां घोष इत्यत्र तीरगे । पावनत्वेऽपि तज्ज्ञयै लक्षणैवेति लाघवात् ॥ ११८ ॥
[ पूर्व
एवमभिधामूलां व्यञ्जनामुपपाद्य लक्षणामूलां तां प्रतिपादयितुं गङ्गायां घोष इत्यादौ लाक्षणिक पदोदाहरणे तीरे पावनत्वादिप्रतीत्याधायकव्यञ्जनावृत्तौ तार्किकोक्तदूषणं तत्सिद्धान्तकथनेनानुवदति - यच्चेति । चोऽप्यर्थकः । यदप्युपपादीति योजना । तार्किकैरिति शेषः । उपपादि । वसंमतयुक्तिभिः प्रतिपादितमित्यर्थः । किं तदित्यत आह – गङ्गायामित्यादिना । अत्रेति गङ्गायां घोष इत्यस्मिन्नुदाहरण इत्यर्थः । तीरगे तीरनिष्ठे पावनत्वेऽपि । पवत्रीकर्तृत्वरूपधर्मविशेषेऽपीत्यर्थः । उपलक्षणमिदं शैत्यादेरपि । तदिति पावनत्वादिज्ञानार्थम् । लाघवालक्षणैवास्तु नतु व्यञ्जनाख्यं वृत्त्यन्तरं गौरवादित्यर्थः । इति यदुपपादीति संबन्धः । इतिशब्दस्तार्किक सिद्धान्तसमाप्त्यर्थः । उक्तं चैवमेव मञ्जर्याम् 'गङ्गायां घोष इत्यादौ लक्षणाप्रयोजनं शैत्यपावनत्वादिप्रतीतिः । नच तत्प्रतीतिर्लक्षणासाध्या । प्रयोजनाभावात् लक्षणायाश्च प्रयोजनवत्त्वनियमादिति चेन्न । लक्ष्यप्रतीतेरेव प्रयोजनत्वात् । तथापि प्रयोजनान्तरं तत्र नास्तीति चेत्ततः किम् । लक्षणाया हि प्रयोजनवत्त्वेन नियमो नतु लक्ष्यप्रतीत्यतिरिक्तप्रयोजनवत्त्वेन गौरवादप्रयोजकत्वाच्च' इति । विवृतं च तर्कप्रकाशे लक्षणाप्रयोजनं गङ्गापदस्य तीरे लक्षणाप्रयोजनम् । शैत्येति । 'खायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुजामहे' इति न्यायात् । गङ्गातटे घोष इति विहाय यद्गङ्गायां घोष इति लक्षणया प्रयोगस्तच्छैत्यपावनत्वादिप्रतीत्यर्थमेवेत्युन्नीयते । लक्षणायाः प्रयोजनवत्त्वनियमादिति भावः । तत्प्रतीतिः शैत्यपावनत्वादिप्रतीतिः लक्षणेति शैत्यपावनत्वादौ लक्षणासाध्ये इत्यर्थः । प्रयोज - नाभावात् प्रयोजनान्तराभावादित्यथः । प्रयोजनाभावेऽपि लक्षणायां को दोष इत्यत आह-लक्षणायाश्चेति । यथा गङ्गापदस्य तीरे लक्षणायां लक्ष्यप्रतीत्यतिरिक्त शैत्यपावनत्वादिप्रतीतिः प्रयोजनं तथा शैत्यपावनत्वे लक्षणायां तस्याः प्रयोजनाभावालक्षणया अनिर्वाहेण प्रयोजनप्रतिपत्तये व्यञ्जनाख्यवृत्तिरादरणीयेति भावः । शैत्यपावनत्वादौ लक्षणैव । नच तस्याः प्रयोजनाभावः । शैत्यपावनत्वादिप्रतीतेरेव प्रयोजनत्वादिति समाधत्ते - लक्षेति । तथापि लक्ष्यप्रतीतेः प्रयोजनत्वेऽपि प्रयोजनान्तरं लक्ष्यप्रतीत्यतिरिक्तं प्रयोजनान्तरम् । ततः किं लक्ष्य प्रतीत्यतिरिक्तप्रयोजनाभावे किमनिष्टमित्यर्थः । ननु लक्षणायाः लक्ष्यप्रतीत्यतिरिक्त प्रयोजनवत्त्वनियमभङ्ग एवानिष्टमित्यत आहलक्षणाया हीति । ननु गौरवेऽप्यन्यत्र दृष्टत्वात्तथा कल्पनीयम् । नात्र कार्यकारणभावे गौरवादित्यत आह- अप्रयोजकत्वाच्चेति । नहि यत्र कुत्रचित्तद्दर्शनमात्रेणैव तादृशनियमावधारणं मानाभावादिति भावः । तथाच लक्षणयैव प्रयोजनप्रतीतिनिर्वाहेण वृत्त्यन्तरकल्पनमितीति । विस्तरस्त्वाकरेऽ