________________
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
तत्रान्याथै तु तात्पर्यग्राहकान्तरकल्पनात् । तात्पर्यस्य ग्रहः कल्प्यस्ततः सैवास्तु लाघवात् ॥ ११६ ।। घटं गुणं च संपाद्य वाप्याः पेयं जलं ततः । निर्वेधं निकटस्थायां गङ्गायां को न वित्पिबेत् ॥ ११७॥
र्थप्रत्ययानन्तरमपरार्थप्रतीतिस्तत्रापि तात्पर्यग्रहोऽस्त्येवेत्यर्थः । तात्पर्यग्रह एवार्थविशेषप्रत्यायकः परंतु यत्रार्थे प्रकरणं तत्र प्रथमत एव तात्पर्यग्रहा. दादावेव तदर्थप्रतीतिरपरार्थे तु तात्पर्यग्राहकान्तरात्तात्पर्यग्रहे सत्यपरार्थप्र. तीतिरिति कृतं वृत्त्यन्तरस्वीकारेणेति हृदयमिति । नचैवं नानातात्पर्यापत्तेरित्यध्वनैव दत्तोत्तरत्वात्पुनरपीयं कल्पना तत्समत्वेन श्वपुच्छन्यायमेवानुसरेदिति वाच्यम् । वैषम्यात् । तथाहि पूर्वोदाहरणे तावत् कान्ताया एव गमनाभावे प्रेमौत्कट्यद्योतने च तात्पर्य प्रकरणादिवशात्कल्प्यमिति युक्त एव नानातात्पर्यापत्तिरूपो दोषः । इह तु यत्र प्रकरणादिकं तत्र प्रथमं तात्पर्यग्रहात्तदर्थप्रतीत्यनन्तरमपरार्थप्रतीतो तात्पर्यग्राहकान्तरं प्रकल्प्य ततस्तत्र तात्पर्यग्रहात्तदुपपत्तिरिति स्फुट एव भेद इति । ततो नात्र व्यञ्जना किंतु शक्तिरेवेति ॥ ११५ ॥ एवं तार्किकोक्तिमनूद्याथ तां श्लथयति-तत्रेति । तुशब्दः प्रतिपादितकल्पनानिरासार्थः । तत्र निरुक्ततार्किककक्षाविषये अन्यार्थे अश्वाद्यर्थे । तात्पर्येति । तात्पर्यस्य यद्राहकान्तरं भोजनादिप्रकरणभिन्नमन्यत्किंचिनिमित्तं तस्य यत्कल्पनं तस्मात् तत्रापि तात्पर्यस्य ग्राहकनिमित्तान्तरकल्पनाद्धेतोरित्यर्थः । तात्पर्यस्येति । अन्यार्थे तात्पर्यस्य ग्रहः कल्प्य इति संबन्धः । नन्वस्त्वेवं का हानिरित्यत आह-तत इति । तात्पर्यग्राहकान्तरादिकल्पनस्य गौरवपराहतलादित्यर्थः । नन्वस्त्वेवं गौरवं का क्षतिः फलमुखगौरवस्यादोषत्वं खयैव पूर्वमङ्गीकृतमिति चेत्सत्यम् । तथापि सैन्धवमानयेत्यादी भोजनादिप्रकरणावणादौ शक्तिग्रहवदश्वादो शक्तिग्रहेति तात्पर्यग्राहकान्तरं कल्पनीयम् । तदेव तु न संभवति । भोजनप्रकरणे गमनादिरूपस्य तस्यासंभवात् , यथाकथंचित्संभवेऽपि श्रोतुः शक्तिग्रहस्य संदिग्धत्वेन युगपदुभयानयनस्य तूष्णीमवस्थानस्य वा प्रसङ्गाच । नचायं दोषस्त्वत्पक्षेऽपि तुल्य इति वाच्यम् । एतादृशस्थले व्यङ्गचार्थे तात्पर्याभावात्केवलं प्रतीयमानस्यान्यार्थस्यैव निर्वाह्यवादतो लाघवायञ्जनैवाङ्गीकार्येति सिद्धान्तयति-सैवेति । अतएवोक्तं काव्यप्रकाशे-'अनेकार्थस्य शब्दस्य वाचकवे नियन्त्रिते । संयो. गाद्यैरवाच्यार्थधीकृद्यावृत्तिरञ्जनम्' इति ॥ ११६ ॥ तदेवार्थान्तरन्यासेन दृढीकुवस्तदनङ्गीकारिणं तार्किकमन्यमुपहसति-घटं गुणं चेति । विदिति । निर्वेधं गाङ्गं जलं निकटे वर्तत इति ज्ञानवानित्यर्थः । एतेनाज्ञव्युदासः । अत्र वित्पदेन विवेककुशलस्य तार्किकस्य तवेदमनुचितमिति द्योतितम् ॥ ११७ ।।