SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [पूर्वार्धे यत्तु नार्थक शब्दे शून्ये प्रकरणादिना । अर्थान्तरेऽभिधैवेति तात्पर्यग्रहमात्रतः ॥ ११५ ॥ वाक्यार्थघटितवाक्यस्थले शक्तिलक्षणाभ्यां भिन्नां व्यञ्जनावृत्तिमुपपाद्य नानार्थकपदस्थलेऽपि तामुपपादयितुं तत्रापि तार्किकाशङ्कामनुवदति-यत्त्विति । तुशब्दः कक्षान्तरार्थः । नानार्थक शब्दे अनेकार्थके सैन्धवादिपदे अधिकरणे प्रकरणादिनानार्थशब्दशक्तिग्रहनियामकप्रागुक्तसंयोगादिचतुर्दशसंख्याकानि यानि निमित्तानि तैः शून्ये रहिते एतादृशे अर्थान्तरे इतरार्थे विषये तात्पर्यग्रहमात्रतः तात्पर्यग्रहमात्रेण । अन्यार्थेऽपि तात्पर्यग्राहकान्तरकल्पनेनेति यावत् । यत्तार्किकैरक्तमिति योजना । तथाचाह मञ्जरीकार एव । 'नानार्थस्थले तावदर्थविशेषप्रत्यये प्रकरणादिकं निर्णायकम् । तथाच प्रकरणादिशून्यार्थान्तरं प्रतीयते तत्र नाभिधामूलम् । सहकार्यभावात् । नापि लक्षणा । अयोगात्सिद्धं वृत्त्यन्तरेणेति चेन । प्रकरणादीनामननुगततया सहकारित्वानुपपत्तेः । तात्पर्यग्राहकलेनैषामनुगम इति चेत्तर्हि लाघवात्तात्पर्यग्रह एव सहकार्यस्तु सचेहाप्यस्तीति । अत्र तर्कप्रकाशकृयाख्यापि नानार्थेति सैन्धवमानयेत्यादौ, अर्थविशेषेति गमनादिरूपार्थप्रत्यये प्रकरणादि गमनप्रकरणादि निर्णायकमिति शक्ततावच्छेदकैक्ये सति शक्यतावच्छेदकनानात्वमेव नानार्थत्वम् । तत्र सैन्धवमानयेत्यादौ भोजनप्रकरणं शक्याविशेषाल्लवणस्येवाश्वादेरपि प्रतीत्यापत्त्या अभिधया नानार्थविषयकशाब्दबोधे जननीये प्रकरणादिकं सहकारि अवश्यं वाच्यमिति भावः । प्रकरणादिशून्येति । गमनादिप्रकरणशून्याश्वादिरूपार्थान्तरार्थमित्यर्थः । तत्र अर्थान्तरप्रत्यये अभिधाशक्तिः सहकारीति प्रकरणरूपसहकार्यभावादित्यर्थः । लक्षणा मूलमित्यनुषज्ज्यते । अयोगात् लक्षणाया अयोगात् । मुख्यार्थान्वयानुपपत्त्या हि लक्षणाकल्पनम् । प्रकृते च तदसंभवेन न लक्षणेति भावः । अतोऽर्थान्तरप्रत्ययानुरोधेन तथाप्रतीत्यर्थ व्यञ्जनारूपवृत्यन्तरमावश्यकमिति भावः । नानार्थस्थलेऽर्थान्तरप्रतीतिः शक्त्यैव । नच प्रकरणाभावेन सहकार्यभाव इति वाच्यम् । तस्य सहकारितासंभवादिति न वृत्त्यन्तरमिति समाधत्ते-प्रकरणादीनामिति । सहकारित्वेति नानार्थविषयकशब्दत्वावच्छिन्नं प्रति प्रकरणादीनां न कारणता तत्तत्प्रकरणानामननुगमेन व्यभिचारादित्यर्थः । तत्तत्प्रकरणानामननुगमेऽपि तात्पर्यग्राहकत्वेनानुगमान व्यभिचार इति शङ्कते-तात्पर्येति । लाघवादिति । नानार्थविषयकशाब्दबावच्छिन्नं प्रति तात्पर्यग्रहजनकत्वेन कारणलापेक्षया लाघवातात्पर्यग्रहत्वेनैव हेतुतास्त्विति न प्रकरणादीनां सहकारितेति भावः । नन्वस्तु तात्पर्यग्रह एव सहकारी तथापि तत्वरूपसहकार्यभावादेव कथमभिधया पदार्थप्रतीतिरित्यत आह–स चेति । तात्पर्यग्रहश्चेत्यर्थः । इहापीति । प्रकरणादिशून्यार्थान्तरस्थलेऽपीत्यर्थः । अस्तीति । नानार्थस्थले शक्त्या एका
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy