________________
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
तत्रोच्यतेऽत्र तात्पर्य गमनाभाव एव ते । प्रेमौत्कट्यप्रतीतिस्तु ततः सिद्धयेत्कथं वद ॥ ११३॥ तत्राप्यस्तीति चेत्तर्हि नानातात्पर्यतापतेत् । उक्तभानान्यथापत्त्या ततो वृत्त्यन्तरं वरम्॥११४॥
कान्तगमनाभावतात्पर्यविषयः तदनुपपत्तिगमनबोधकपदस्य गमनाभावे लक्षणयेवोपपत्तौ नातिरिक्तवृत्त्यन्तरकल्पनं गौरवादिति भाव इति ॥ ११२ ॥ तत्र समाधातुं प्रतिजानीते-तत्रेति । समाधानमिति शेषः । किं तदित्याकाङ्कायां तदेवाह-अत्रेत्यादिना । अत्र 'गच्छ गच्छसि चेत्कान्त' इत्युदाहरण इत्यर्थः । ते लक्षणावादिनस्तार्किकस्य तव मत इत्यर्थः । गमनाभाव एव तात्पर्यमस्तीत्यन्वयः । अन्ययोगव्यवच्छेदार्थमवधारणम् । तत्त्वनुपदमेवोक्तं तर्कप्रकाशकृत्संमत्यात्र गमानाभाव एव तात्पर्यविषय इति । किं तत इत्यत आह-प्रेमेत्युत्तरार्धेन । ततः प्रकृतवाक्ये गमनाभावस्यैव तात्पर्यविषयत्वेन तस्यैव लक्ष्यत्वावश्यकतया निरुक्तवाक्यसकाशादित्यर्थः । या प्रेमौत्कट्यप्रतीतिर्जायते सा कथं सिद्ध्येदिति भो तार्किक' त्वं वदेत्यध्याहृत्य योज्यम् । कान्तविषयककामिन्याश्रयकानुरागापरनामकचित्तवृत्तिविशेषस्य यदौत्कट्यं आधिक्यं तस्य या प्रतीतिनिरुक्तवाक्यार्थपर्यालोचनेनानुभवः । शेषं स्फुटमेव । यदि गौरवभिया व्यञ्जनावृत्तिं न स्वीकुरुषे तर्हि निरुक्ततात्पर्यरीत्या लक्षणया गमनाभाव. सिद्धावपि प्रेमौत्कट्यानुभवसिद्धिर्न स्यादतस्तदर्थ सा वश्यमङ्गीकार्यति तात्पर्यम् । एतेन लक्षितलक्षणापि परास्ता तात्पर्याभावादिति ॥ ११३ ॥ नचैवं तर्हि प्रेमौत्कट्यकथनेऽपि तस्यास्तात्पर्य स्वीकार्यमिति वाच्यम् । अनेकविधतात्पर्यत्वापत्तेः, 'यत्परः शब्दः स शब्दार्थः' इति न्यायविरोधाच । तस्माप्रेमौत्कट्यानुभवान्यथानुपपत्त्या तदर्थ व्यञ्जनाख्यवृत्त्यन्तरोररीकरणमेव रमणीयमिति निरूपयति-तत्राप्यस्तीति चेदिति । निरुक्ततात्पर्यमिति शेषः । उक्तभानेति । ततः प्रेमौत्कट्येऽपि तात्पर्यस्वीकारपक्षे नानातात्पर्यत्वलक्षणदोषसद्भावाद्धेतोः उक्तभानान्यथापत्या उक्तं प्रतिपादितं यत्प्रेमौत्कट्यस्य भानं अनुभवस्तस्य अन्यथा प्रकारान्तरेण या आपत्तिः अनुपपत्तिरसंभवरूपदोष इति यावत् तेन हेतुना वृत्त्यन्तरं शक्त्यादिभिनव्यञ्जनाख्यं वृत्त्यन्तरमित्यर्थः।वरं खीकतु योग्यमेवास्तीति संबन्धः।ननु तर्हि गमनाभावे तात्पर्यात्तत्र लक्षणा तथा प्रेमास्कट्यस्याप्युक्तवाक्यश्रवणोत्तरं प्रतीतेस्तत्र व्यञ्जनेत्येकस्मिन्वाक्ये वृत्तिद्वयस्वीकृत्यापत्तिरिति चेन्न । तस्यादोषाभावत्वात् । नोचेगङ्गायां घोष इत्यादि सर्वत्र लक्षणादिस्थले गङ्गादिशब्दशक्योपस्थितिं विना तत्संबन्धस्य लक्ष्यत्वानुपपत्तेस्तदुपस्थित्यर्थं तत्र शक्तिखीकृतावपि दोषत्वानपायात्व नाम लक्षणापि स्यात् । तस्माद्युक्तमेवात्र व्यञ्जनाखीकरणमिति तत्त्वम् ॥ ११४ ॥ एवं तात्पर्याख्य