________________
साहित्यसारम् ।
[पूर्वार्ध अत्र नैयायिको वक्ति तात्पर्यानुपपत्तितः।
सर्वत्र लक्षणातोऽत्र तत्सत्वात्सैव तेऽस्त्विति ॥ ११२॥ सिचेत्कान्तेत्यत्र प्रेमौत्कव्यं । तथा पद्मिनी पश्य पश्येत्यत्र विचित्रस्त्री । तथा गङ्गायां घोष इत्यत्रापि तटे पावनत्वं च क्रमाद्यत्प्रतीयते तत् व्यञ्जनां विना घटेत्किमिति योजना । नच गच्छेत्यादिविरोधलक्षणामूलकमिति व्यञ्जनाया वाक्योदाहरणे तथा गङ्गायां घोष इति जहत्स्वार्थलक्षणामूलकव्यञ्जनायाः पदो. दाहरणेऽपि लक्षणयैव तथा पद्मिनीमिति शक्तिमूलकव्यञ्जनायाः पदोदाहरणे च शक्त्यैवोक्तार्थप्रतीतिरस्त्विति वाच्यम् । गच्छेत्यत्र विरोधिलक्षणयापि मागा इत्यर्थस्यैव प्रतीतेस्तथा गङ्गायामित्यत्रापि जहत्वार्थया तीरस्यैव प्रतीतेः पद्मिनीमित्यत्रापि नानार्थवाचकशब्दशक्तिगृहनियामकसंयोगादिप्रागुक्तचतुर्दशान्यतमासत्वेन गोशब्दन्यायेन प्रसिद्ध्या कमलिन्यामेव शक्तिसंभवाच्च । तस्माद्यञ्जनैवोक्कोदाहरणेष्वावश्यकीत्याशयः ॥ १११ ॥ तत्र तार्किकाशङ्का व्युत्थापयतिअत्रेति । एवं व्यञ्जनाख्ये वृत्त्यन्तरे सिद्धे सतीत्यर्थः । नैयायिकः न्यायं न्यायशब्दितयुक्तिप्रधानं कणादगौतमीयान्यतरशास्त्रं अधीते स तथा। तार्किक इत्यर्थः । सर्वत्र गङ्गायां घोष इत्याद्यखिलोदाहरणेष्वित्यर्थः । लक्षणातात्पर्यानुपपत्तितः यष्टीः प्रवेशयेत्यादौ भोजनार्थ यष्टिधरप्रवेशनरूपस्य वक्तुराशयलक्षणस्य तात्पर्यस्य या अनुपपत्तिः यष्टिमात्रप्रवेशने असंपन्नता तस्याः हेतोरेव यष्टयादिपदानां यष्टि. धरादिषु लक्षणावृत्तिर्यतः सर्वैर्वादिभिः खीक्रियते। अतः हेतोः अत्र गच्छ गच्छसि चेत्कान्तेत्यादिवाक्यादिषु भवत्संमतव्यञ्जनोदाहरणेष्वपि तत्सत्वात्तस्याः तात्पर्यानुपपत्तितः सत्वात् कान्तगमनाभावकान्तातात्पर्येण गमने तदसंभवस्य विद्यमानत्वाद्धेतोरित्यर्थः । ते व्यञ्जनावादिनः सैवलक्षणैव अस्तु संमता भवतु, नतु गौरवदूषितं वृत्त्यन्तरमिति वक्ति । भाषत इत्यर्थः । तथाचोक्तं न्यायसिद्धान्तमजर्याम् 'व्यञ्जना च न वृत्त्यन्तरम् । लक्षणयैव तदर्थसिद्धेरिति । तर्हि तात्पर्यानुपपत्तिरेव सर्वत्र लक्षणाबीजमस्तु । साचेहाप्यस्तीति च । विवृतं चेदं तर्कप्रकाशकारैः । ननु स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जामह इति न्यायेन . तटे घोष इति विहाय गङ्गायां घोष इति लक्षणामुखप्रयोगे बीजकालायां शैत्यपावनत्वादिप्रतीतिरेव प्रयोजनत्वेनावसीयते । साच कुप्तवृत्त्या नोपपादयितुं शक्येति व्यञ्जनाख्यातिरिक्ता वृत्तिरुपेयेत्यत आह-व्यञ्जना चेति । तथा चेयं यदि लक्षणात्मिका. तदा शक्तिलक्षणातिरिक्तत्वाभावः । यदिच लक्षणा. त्मिका न तदा वृत्तिरित्यरिक्तवृत्तित्वाभावसत्वमव्याहतम् । तेन न सिध्यसिद्धिव्याघातः । कथं तर्हि शैत्यपावनत्वादिप्रतीतिरित्यत आह-लक्षणयैवेति । तदर्थेति । व्यङ्गयार्थप्रतीत्युपपत्तेरित्यत आह-सर्वत्रेति । गङ्गायां घोष इत्यादावपीत्यर्थः । अस्तु को दोष इत्यत आह-सा चेहापीति । सा च तात्पर्यानुपपत्तिश्चेहापि गच्छगच्छसीत्यादिव्यञ्जनास्थलेऽपि अस्तीति । अत्र