SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २ ] सरसामोदव्याख्यासहितम् । गच्छ गच्छसि चेत्कान्तेत्यादिवाक्यादिकेप्वपि । पद्मिनीं पश्य पश्येति गङ्गायां घोष इत्यपि ॥ ११०॥ प्रेमौत्कट्यं विचित्रस्त्री पावनत्वं तथा तटे । क्रमात्प्रतीयते यत्तद्धटेत्कि व्यञ्जनां विना ॥ १११ ॥ त्यर्थः । शेषमुक्तार्थमेव । न केवलमस्याः, सौन्दर्ययौवनाद्युत्कर्षण सुरतसुखोत्कर्षलक्षणतृतीयपुरुषार्थहेतुत्वमेव किंतु परंपरयोर्वरितपुमर्थप्रयोजकत्वमप्यस्तीत्याहअशक्येति । शक्यः सामर्थ्यजन्यो नृपोपदेशः तद्भिन्नोऽशक्यः । तथा लक्ष्यः शाखायां चन्द्र इत्यत्र चन्द्रलक्षिकायाः शाखाया औदासीन्यशालिसुहृदुपदेशः तद्भिन्नोऽलक्ष्यः, एतादृशोपदेशकर्तृवस्य कान्तायामेव सत्वाद्युक्तमेवोक्तव्याख्यानम् । तथात्वं सुन्दरीवेशहृदयमित्यादिना प्रागेवोक्तम् । शिष्टं तु समानमेव । पक्षे हे मुमुक्षुजनाः, व्यञ्जयति द्योतयत्यद्वैतात्मतत्त्वमिति व्यञ्जना उपनिषत् । दृशोस्तत्त्वंपदार्थज्ञानयोः चुम्बनतः। अवलम्बनेनेत्यर्थः । अशक्येति । तदुक्तं श्रीमदाचायचरणारविन्दैः- शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वै...नैवावबुद्ध्यते' इति । तस्माच्छक्तिवृत्तिलक्षणावृत्यु...गम्याद्वैतब्रह्मात्मतत्वस्य दृढतमापरोक्षज्ञानातोरित्यर्थः । अमन्देति । मन्दो जडस्तद्भिन्नोऽमन्दः स्वप्रकाशः परमात्मा स चासावानन्दो निरतिशयनिर्विकल्पसुखोत्कर्ष इति कर्मधारयः । शेषं तु यथापूर्वम् । तस्मादशक्या लक्ष्यार्थसंबोधकशव्दवृत्तित्वं व्यञ्जनात्वमिति तलक्षणं सिद्धन्।शक्तिवृत्तौ लक्षणावृत्तौ चातिव्याप्तिवारणाय क्रमेणाशक्येत्यर्थान्तम् । शक्यत्वाद्यवच्छिन्नेतरार्थसंबोधकशब्दवृत्तित्वं वा तत्त्वंआदिना लक्ष्यत्व. ग्रहः । बोधकत्वस्य वृत्त्यान्वयः । यत्तु 'गच्छ गच्छसि चेत्कान्त' इत्यादिसकलव्यजनोदाहरणेषु तात्पर्यानुपपत्त्या लक्षणैवास्तु लाघवात्कि वृत्त्यन्तरस्वीकारेणेति शङ्कितं । तन्न । अनुभवविरोधात्फलमुखगौरवस्यादोषत्वाच्च । तथाहि अस्तं गतः सवितेति देवदत्तेन यज्ञदत्तं प्रत्युक्ते सति निकटवर्तिन्याः स्वान्तःपुरचारिण्याः खतरुण्याः शीघ्र स्वकान्तसुरतलाभसंभावनेनानन्दनिर्भरो यो जायते तत्र तावत्तात्पर्य वक्तराशय इति पूर्वोक्तलक्षणस्य तात्पर्यानुपपत्तिरूपलक्षणाबीजस्याभावेन लक्षणावृत्ते. रसंभवाच्छक्तिवृत्तेस्तु सुदूरोत्सारितत्वाचान्वयव्यतिरेकाभ्यां चोक्तशब्दश्रवणोत्तरक्षणावच्छेदेनैवोक्तस्थले निरुक्तानन्दादेरनुभवसिद्धवावश्यं निरुक्तवृत्तिरेव खीकर्तव्येति तत्त्वम् । विस्वरतस्त्वनुपदमेव वक्ष्याम इति दिक् । अत्र शान्तशृङ्गारौ रसौ । श्रेषोऽलंकारः । स्वीया प्रौढा नायिका । चतुरतरो नायकः ॥१०९॥ तदेवोपपादयति-गच्छ गच्छसिचेत्कान्तेति द्वाभ्याम् । ‘गच्छ गच्छसिचे. कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्' इति तर्कप्रकाशकारोदाहृतव्यजनावृत्तिवाक्योदाहरणं बोध्यम् । आदिपदाच्छक्ति. मूलायास्तथा लक्षणायाश्च तस्याः पदोदाहरणे बोध्ये । ते एव स्पष्टयतिपद्मिनीमित्याद्युत्तरार्धन क्रमेण ॥ ११० ॥ प्रेमौत्कट्यमिति । गच्छ गच्छ
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy