________________
५८
साहित्यसारम् ।
[ पूर्वार्धे सिकाहाददात्रीत्यर्थः । साधारणसर्वजनानां कार्यकारणयोरविवेकात् शक्तिलक्षणाभ्यां भिन्नायां तृतीयायामेतस्यां व्यञ्जनाख्यवृत्तावेव रञ्जनहेतुभूतायामपि रञ्जनत्वबुद्धिराश्चर्यदर्शनाद्युक्तैव । रसिकानां तु कार्यकारणविवेकान तथा किंतु शक्त्याद्यगम्यवस्तुप्रमाद्वारा निरुक्तवृत्तिरानन्दहेतुरेव भवतीति भावः । पक्षे हे जनाः भो रसिकाः , व्यञ्जना अजहत्वार्थलक्षणया निरुक्तवृत्तिप्रधाना काव्यवाणीत्यर्थः । शेषं तु दृशोरित्यायुत्तरार्धस्थं प्राग्वदेव । शक्यः शक्तिजन्यः 'अग्निहोत्रं जुहुयात्' इति 'न सुरां पिबेत्' इति च राजाज्ञावत्सामर्थ्यसंजातो वैदि. कोपदेशस्तद्भिन्नोऽशक्यस्तथा । लक्ष्यः शक्यसंबन्धो लक्षणेत्युक्तेः 'इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत्' इतिवचनाच्छक्यस्योक्तरीत्या वैदिकोपदेशस्य विवेच्यविवेचकभावसंबन्धघटितेतिहासाद्युपदेशस्तदितरोऽलक्ष्यः । एतादृशः यः 'परभिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तचारखिन्नाः । विचिनुत भवनेषु बल्लवीनामुपनिषदर्थमुलूखले निबद्धम्' इति कर्णामृते । तथा पूर्वकादम्बर्यामपि चन्द्रापीडं प्रति यौवराज्याभिषेकात्पूर्व शुकनासाख्यमन्त्र्युपदेशः– 'केवलं तु निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवं, अपरिणामोपशमो दारुणो लक्ष्मीमदः, कष्टमनञ्जनवर्तिसाध्यपटलमैश्वर्यतिमिरान्धलं, अशिशिरोपचारहार्योऽतितीव्रो दर्पज्वरोष्मा, सततममूलमअदम्यो विषमो विषयविषाखादमोहः, नित्यमस्नानशौचशोध्यो बलवानागमलोपलेपः, अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंपातनिद्रा भवतीत्यतो विस्तरेणाभिधीयसे । गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महती खल्वियमनर्थपरम्परा । सर्वाविनयानामेकैकमप्येतेषामायतनं किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपर्णमुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सततमतिदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाणि समास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः, नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनमुपदेशानाम् ।अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति' इत्यादिरूपः श्रीमन्महारामायणाख्यार्षकाव्यमूलकस्तत्रतत्र प्रसिद्धकाव्योपदेशः । शेषं पूर्वार्धेतु प्राग्वदेव । वैदिकाद्युपदेशविलक्षणश्चायं सर्वत्र सुखद इत्यादिप्रागुक्तरीत्या विरतानन्दप्रदकाव्योपदेशस्य दृढतमप्रमया सहृदयप्रमोददात्रीत्यर्थः । पक्षे भो युवजनाः, दृशोर्नत्रयोः चुम्बनतः । कामशास्त्रविहितनयनचुम्बनेनेत्यर्थः । व्यञ्जना विगतं अञ्जनं कज्जलं यस्याः एतादृशी खसुन्दरी