________________
ऐरावतरत्नम् २]
सरसामोदव्याख्यासहितम् ।
अशक्यालक्ष्य संबोधादमन्दानन्ददायिनी । शोचुम्बनतः किं न व्यञ्जनारञ्जनं जनाः ॥ १०९ ॥
तस्यामभिनवयुवतीत्वं द्योतितम् । अत्र रूपकातिशयोक्तिरलंकारः । एवं शुद्धं तमुदाहरति — सोऽयमिति । स यः पूर्व विपरीतसुरतादौ मया लालितः । अयं तव मानवतीत्वेन प्रत्यक्षोऽपि दुःसाध्यः प्रसिद्ध एव त्रिवल्यादिविराजितो मध्यप्रदेशो वर्तत इत्यर्थः । अत्र स्वस्य कामुकत्वेन बलात्काररतोद्युक्तमनस्त्वा - दुक्तविशेषयोस्तात्पर्याभावेन जघनोपलक्षकत्वेन मध्यमात्र एव तात्पर्या लक्ष्य एव वाक्यार्थः सच सादृश्यादिभिन्नसंबन्धघटितत्वाच्छुद्धोऽपीत्यर्थः । एतेन त्वया शीघ्रं प्रमुदितव्यमिति द्योतितम् । अथ विरुद्धस्य तस्योदाहरणमाहमालिङ्गेति । अत्रालिङ्गेति वाक्यार्थो विरुद्धलक्षणालक्ष्यः । तेन पुनरप्यालिङ्गनप्रार्थनमेव व्यज्यते । एवं लक्षितलक्ष्यमपि तमुदाहरति-त्यजामीति । अहं अजिनमपि परिहितचर्मापि त्यजामि । विसृजामीत्यर्थः । एतेन मम दीर्घ दुकूलादिकं वसनं नास्येव किंतु व्याघ्रादेश्चर्मरूपं स्वल्पं वर्तते तदपि त्यजामीति शीघ्रं दिग्वसनत्वं मया संपाद्यत इति वाक्यार्थो लक्षितलक्ष्य एव । तेनेतः परं न प्रसीदसि चेद्बलात्सुरतं करिष्यामीत्यतुलौत्कण्ठ्यं सूचितम् ॥ १०८ ॥ एवमुद्देशक्रमानुसारेणाष्टादशसंख्याकस्य लक्ष्यार्थस्य व्यङ्गचोदाहरणान्यभिधायाधुना व्यञ्जनावृत्तिनिरूपणस्यावसरप्राप्तौ सत्यां ननु किं व्यञ्जनाख्यवृत्त्यन्तरस्वीकारेण गौरवापादकेन प्रत्युत यानि 'गच्छ गच्छसि चेत्कान्त' इत्यादीनि व्यञ्जनोदाहरणानि तेषु सर्वेष्वपि तात्पर्यानुपपत्त्या लक्षणावृत्त्यैव निर्वाहसंभवेन लाघवमेव । तस्माद्विफल एव तृतीयवृत्ति स्वीकाराभिनिवेशस्तवेत्याशङ्कां शमयंस्तलक्षणसूचनेन तामुपपादयति — अशक्येति । हे जनाः, व्यञ्जनादृशोचुम्बनतः भवतां रञ्जनं न भवति किमित्यव्याहय योजना । अत्र हे जनाः, इति जनत्वावच्छिन्नयावन्मनुष्यसाधारणसंबोधनं त्वस्याः सकललोकानुभवगोचरीकर्तुमेव । व्यञ्जना व्यञ्जयति द्योतयत्यर्थमिति तथा दृशोः शक्यलक्ष्यज्ञानयोः चुम्बनतः चुम्वनवल्लेशतोऽवलम्वनमात्रेणेत्यर्थः । भवतां युष्माकं रञ्जनं संतोषणं तत्साधनत्वाङ्गुलं जीवनमिति न्यायेन तत्त्वव्यपदेशः । रञ्जनशब्दिताहादन हे - तुलात्तद्रूपेत्यर्थः । एतादृशी न भवति किम् । अपितु भवत्येवेत्यर्थः । एतेन कार्यकारणयोरभेदोपचाराद्धेत्वलंकारो ध्वनितः । यावदुक्तरीत्या स्वयमेव आनन्दनरूपा सा तद्धेतुः स्यादिति किमु वक्तव्यमिति कैमुतिकन्यायसिद्धमेवोक्तवृत्तौ सर्वजनानां सामान्येनानन्दकत्वमिति तत्वम् । अथाधिकारिविशेषेषु विशेषतस्तस्यास्तद्विशेषणेनाभिधत्ते - अशक्येति पूर्वार्धेन । अशक्यः शक्तिवृत्त्यविषयः । तथा अलक्ष्यः लक्षणावृत्त्यगम्यः योऽर्थस्तस्य यः सम्यक् प्रमात्वेन बोधो ज्ञानं तस्मात् । शक्त्यादिविषयक प्रमारूपहेतोरित्यर्थः । अमन्देति । अमन्दाः अजडाः । सहदया इति यावत् । तेषां य आनन्दो हर्षस्तद्दायिनी र