SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [पूर्वार्ध भ्राजतः पितरौ रत्यास्त्वं श्लाध्यैवासि शैलजे। बाहू सकञ्चको कामनिषङ्गौ ते प्रकोष्ठकौ ॥ १०६॥ पद्मनाले हेममये हस्तौ कोकनदे रुचा। त्वत्कङ्कणालिः कंदर्पवीरचक्रावलिः शिवे ॥ १०७ ॥ कम्बोरधस्तु हेमाद्री सोऽयं मध्यस्तवाङ्गने। मालिङ्गनालिङ्गसिचेत्त्यजाम्यजिनमप्यहम् ॥ १०८ ॥ दर्शनात्कामाकुलत्वं सूचितम् । विरुद्धलक्ष्यमुदाहरति-त्वमिति । उक्ताग्रहादश्लाघ्येत्यर्थः । अत्र मुग्धावं व्यज्यते । लक्षितलक्ष्योदाहरणमाह-शैलज इति । अत्र शैलपदेन पर्वतस्तत्पिता ततो जडत्वं धर्मोऽत्र लक्ष्यत इत्यर्थः । एतेन बुद्धिहीनत्वं ध्वनितम् ॥ १०५ ॥ विशिष्टलक्ष्यमुदाहरति-बाहू इति । हे गौरि ते सकञ्चकौ दिव्यकञ्चुकसहितौ बाहू भुजौ कामनिषङ्गौ मदनतूणीरौ स्फुरत इति शेषः । अत्र कञ्चुकविशिष्टौ भुजौ कामनिषङ्गपदलक्ष्यौ । कुतः तादृशावेव तावुद्दिश्य तथात्वविधानादिति लक्षणसमन्वयः । एवंच तद्दर्शनाद्भरितरं मम स्मरपारवश्यं जातमिति द्रुतमेवालिङ्गय मामिति प्रार्थनं ध्वनितम् । अत्र सरलत्वपुष्टत्वदिव्यवसनावेष्टितत्वादिसाधर्म्यण तद्भजयोः कामनिषङ्गरूपत्वोक्तिवशाद्रूपकमलंकारः । एवंविशिष्टलक्षकमुदाहरति-प्रकोष्ठका. विति । ते प्रकोष्ठको कूपराधःप्रदेशौ । अत्राप्यङ्कप्रक्षेपः प्राग्वदेव ज्ञेयः । श्लोकसमाप्तिस्तु रुचेत्यन्तमेव । तौ हेममये सुवर्णमये पद्मनाले भासत इति शेषः । अत्र हेममयत्वविशिष्टयोः पद्मनालयोर्लक्षकत्वेन विशिष्टलक्षकत्वम् । तेन गौरत्वसुरभित्वसुकुमारत्वादिकं तयोर्ध्वनितम् । अलंकृतिस्तु सैवात्र सर्वत्र । अथ सहेतुलक्ष्यमुदाहरति-हस्ताविति । त इति पदमत्रापि संबध्यते। तथाच तव हस्तौ रुचा अरुणकान्या कोकनदे रक्तोत्पले भात इत्यर्थः । अत्र हस्तयोः कोकनदपदलक्ष्यत्वे रुचेति हेतुः । तेन तत्र सुरभित्वाद्यावेदनात्तस्याः पद्मिनीत्वं सूचितम् ॥ १०६ ॥ एवं निर्हेतुलक्ष्यमप्युदाहरति-त्वत्कङ्कणे. त्यर्धेन । हे शिवे गौरि, तव कङ्कणानि वज्रमणिवलयानि तेषामालिः पतिः सा तावत्कंदर्पवीरचक्रावलिः कंदर्पः कामस्तन्नामा यो वीरस्तस्य यानि चक्राणि सुदर्शनादिवत् प्रसिद्धान्यायुधानि तदावलिस्तच्छ्रेणिरस्तीत्यर्थः । अत्र हेत्वभावः स्फुट एव । तेन खस्मिन्कामातुरत्वं व्यज्यते ॥ १०७ ॥ एवं चतुर्विंशतिभेदभिन्नं सप्रयोजनं संक्षेपतो लक्ष्यपदार्थमुदाहृत्याधुनोद्देशगौणादिभेदेन चतुर्विधं वाक्यार्थमुदाहरति-कम्बोरिति । कबोः शङ्खस्य अधः अधोभागे हेमाद्री काञ्चनपर्वतौ वर्तेते इत्यर्थः । अत्र कम्बुपदेन त्रिरेखाङ्कितत्वादिगुणयुक्ततया कण्ठस्तथा हेमाद्रिपदेन कठिनवभाखरत्वपीनत्वोच्चत्वादिसाधर्म्यात्स्तनौ च लक्ष्येते । तथाच हे अङ्गने, शङ्खरूपात्तव कण्ठादधोभागे कनकाचलरूपौ कुचौ विद्यते इति वाक्यार्थोऽपि लक्ष्य एव निरुक्तगुणयोगाद्गौणश्च सिद्धः । तेनात्र
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy