________________
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । वश्येन मत्सरणीभविष्यसीति ततो वरं तत्पूर्वमेव मत्प्रार्थनाङ्गीकरणमिदमिति द्योतितं। समासोक्त्यलंकारोऽयम् । तदुक्तम्-'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति श्चन्द्रमाः' इति । घनपदान्मेघश्यामस्य कृष्णस्य स्फूर्तेस्तथात्वम् । तथा वाच्यवाचकसंबन्धलक्ष्योदाहरणमाह-नोनो बदसीति । यथा घटं वदतीत्यत्तत्र वाच्यो घट: वाचकं घटपदं तत्संबन्धेन घटशब्दस्य जातिशक्त्याक्षेपलव्धायां घटव्यक्ती शक्तत्वेऽपि तात्पर्यानुपपत्त्या तद्वाचकं घटपदं वदतीत्यर्थवशाद्धटपदे लक्षणा तन्नोनो इति निषेधवाचकयोः पदयोरिंवारं निषेधं वदसीत्यर्थे तात्पर्याभावात्तद्वाचकं पदमेव वदसीत्यत्र तत्सवाच निरुक्तसंबन्धेन तद्वाच्यार्थीभूतं निषेधं विहाय तद्वाचकयोः पदयोरेव लक्षणेत्यर्थः । तथा भो प्रिये, त्वं नो नो इति वृथा किमिति वदसीत्यन्वयः । तस्मादहमुक्तघनं नैव पश्यामीत्यर्थकं वीप्साघटितं निषेधवाचकं नोनो इति पदद्वयं वृथा प्रागुक्तरीत्या तवावश्यं क्षणान्तरे मदेकपरायणलसंभवात्क्षणिकमानवशेन निष्फलं । किमिति कस्माद्धेतोर्वदसि भाषस इत्यर्थः । तस्मादद्यैव मद्वचनमङ्गीकुर्विति तात्पर्यम् । एवं चात्र वशीकारसामग्रीपौष्कल्यादितः परमाग्रहानौचित्यमेवेति ध्वनितम् । अथ बहुव्रीहिलक्ष्यमुदाहरति-श्रवणाविति । रत्नमये होरकादिप्रचुरे ताटङ्के कर्णभूषणे ययोस्तावित्यतद्गुणसंविज्ञानोऽयं बहुव्रीहिः।रत्नमयस्वगुणस्य चित्रग्वादिवत्ताटङ्कनिष्टत्वेन श्रवणसंबन्धितया संविज्ञानाभावादित्यर्थः । अत्रैकदेशान्वयस्वीकारपक्षे प्रागुक्तरीत्या ताटङ्कपदस्य ताटङ्कवति लक्षणा रत्न. पदस्य तु ताटङ्कयोरन्वयः । तदस्वीकारपक्षे तु रत्नताटङ्कवत्येव ताटङ्कपदस्य लक्षणा रत्नपदं तु तात्पर्यग्राहकमिति भावः । एतेन ‘को बधिरो यः शृणोति नहि तानि' इति प्रश्नोत्तररत्नमालावचनानिरुक्तभूषणेनैव तव श्रवणौ रमणीयौ नतु मदुक्तहितश्रोतृत्वेनेति व्याजस्तुत्यलंकारो व्यज्यते । एवं तत्पुरुषलक्ष्यमुदाहरतिबद्भवाविति । तव भ्रवाविति षष्ठीतत्पुरुषः । अत्र त्वत्पदे त्वत्संबन्धिनि लक्षणा । तेन यदि त्वयि न रोषस्तर्हि त्वदधीनयोरेवानयोः प्रकृत्या न तयोरपि भ्रुवोः किमित्युन्नतता संपन्नेत्यतो वचसैव केवलं कोपं गोपयसीत्युपालम्भः सूचितः । तुशब्दः पुनरर्थे । उपकर्णकं भ्राजत इति योजना । अत्रो. पकर्णकमित्यन्तं न लोकसमाप्तिः किंतु शैलज इत्यन्तमेव । तथाप्यङ्कप्रक्षेपस्तावद्वत्थेत्यन्तं यदर्धमेव रचितं तदनुरोधेनैवेति बोध्यम् । एवंच कर्णयोरुपेत्यु. पकर्णकमित्यव्ययीभावसमासेन कर्णपदे तत्संवन्धिनि लक्षणेति तदुदाहरणमेतत् । अत्र भ्रुवोः स्त्रीत्वात्कर्णयोः पुंस्त्वात्त्वदधीने एव ते त्वयैव यतस्तत्सानीप्यं प्रापिते तस्मात्त्वमपि द्रुतमेव मत्समीपमायास्यसीति वस्तु वनितम् । अथ द्वन्द्वलक्ष्यमुदाहरन् समाहारद्वन्द्वस्याहिनकुलमित्यादिरूपस्य पाक्षिकलक्ष्यलात्तभुदाहृत्यैवेतरेतरयोगद्वन्द्वलक्ष्यमेवोदाहरन्ध्रुवौ विशिनष्टि-पितराविति । रतेर्जनकावित्यर्थः । अत्र पितृपदे मातरि अजहत्वार्था लक्षणा । तेन खस्मिंस्त