________________
५४
[ पूर्वार्धे
साहित्यसारम् ।
सेयं दृड्मुखमानन्दस्ताम्बूलोऽयं तवाधरः । स्पृशेऽहमग्रहस्तेन कपोलौ शशिभास्करौ ॥ १०४ ॥ कदम्बाग्रे घनं पश्य नोनो वदसि किं वृथा । श्रवणी रत्नताटङ्कौ त्वद्रवौ तूपकर्णकम् ॥ १०५ ॥
1
1
एव न तु वृक्षादीनामिव किसलयमपीति न रक्तत्वसाम्याद्गौणत्वापत्तिः । अत्रोदाहरणद्वयेऽपि हेत्वलंकार एव । ततो जहल्लक्षणालक्ष्यमुदाहरति — कर्णाविति । नेत्रे कर्तृणी कर्णौ कर्मणी आक्रमतः । कर्णोल्लङ्घनासंभवात्तत्सामीप्यमुल्लङ्घयत इत्यर्थः । एतेन विशाललोचनात्वं व्यज्यते । अत्रात्यन्ततिरस्कृतवाच्यो ध्वनिः वाच्यार्थीभूतश्रोत्रत्यागेन तत्सामीप्यस्य लक्ष्यलादिति । एवमजहल्लक्षणालक्ष्यमप्युदाहरति- शोण इति । अरुणवर्णस्य रोषतश्चलनासंभवाच्छोण आरक्तस्तवाधरो रोषतः मानजनितकोपाद्धेतोश्चलति । कम्पत इत्यर्थः । एतेन मानातिशयो व्यज्यते । अत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः ॥ १०३ ॥ अथ जहदजहत्स्वार्थालक्ष्योदाहरणमाह — सेयमिति । या पूर्व कामसंजीवन्यभूत्सा निरुक्तगुणवती इयं रुष्टा दृक् दृष्टिरस्तीत्यर्थः । अत्रोक्त विशेषयोः क्षणिकत्वेन तत्र तात्पर्याभावात्खभावतः सुप्रसन्नदृष्टिमात्रवर्णने तात्पर्याद्युचैवोक्तलक्षणेत्याशयः । एतेन यद्यप्यधुना रोषवतीव तव दृष्टिः स्फुरति तथापि नासौ वास्तविकी । औपाधिकधर्मशालित्वात् । प्राचीनकामाकुलत्व दृष्टिवदित्यनुमानेन पारमार्थिकस्त्वयि कोपोऽस्तीत्यनुनयो द्योतितः । अथ तादर्थ्यलक्ष्यमुदाहरति — मुखमिति । आनन्दप्रयोजकं तव मुखं भवतीति तादर्थ्यादौपचारिकमेवात्रानन्दत्वमित्यर्थः । अतस्तूर्ण चुम्बनं देहीति ध्वनितम्। एवं खखामिभावसंबन्धलक्ष्यमुदाहरति-ताम्बूलोऽयमिति । अयं सिद्धीकृत्य मया त्वत्प्रसादनार्थ करे धृतस्ताम्बूलस्तव अधरोऽस्ति । त्वदधर एवास्य स्वामीति राजकीयपुरुषे राजायमिति व्यवहारवदत्रापि तथात्वमित्यर्थः । एतेन स्वस्मिन्नत्यादृतत्वं सूचितम् । तथावयवावयविभावसंबन्धलक्ष्यमप्युदाहरति — स्पृशेऽहमग्रहस्तेनेति । अयं चासौ हस्तश्चेति कर्मधारयादुक्तसंबन्धेन हस्तस्याग्ररूपेऽवयवे हस्तपदं लाक्षणिकम् । एतेन तत्कपोलयोरतुलमृदुलत्वं ध्वनितम् । नोचेदग्रपदप्रयोगो न कृतः स्यात् । तस्मात्स्वहस्तस्य पुरुषसंबन्धित्वेनैव कठिनत्वात्तस्याग्रस्वरूपेणाङ्गुल्येकदेशेनानुनयार्थे स्पर्शनकथनाद्युक्तमेवैतदिति । एवं तात्कर्म्यलक्ष्यमुदाहरति-— कपोलाविति । तस्याः कपोलयोस्तमोपहरणलक्षणतत्कर्मकर्तृत्वात्तत्वं तेन निरुपमलावण्यवत्त्वं व्यज्यते । नत्वत्र रूपकम् । एकत्र किमिति शशिपदद्योतित कार्ण्यवैशिष्ट्यमन्यत्र किमिति भास्करशब्दसूचितचण्डरुचित्वप्रश्नावकाशात्प्रकृतानुपयोगाच्च स्पष्टमन्यत् ॥ १०४ ॥ अथ सांमुख्यलक्ष्यमुदाहरति-कदम्बेति । हे गौरि, त्वं कदम्बाग्रे पुरोवर्ति कदम्बतरोर अग्रभागस्य संमुखमित्यर्थः । घनं मेघं पश्य विलोकयेति यावत् । एतेन प्रावृट्कालागमाद्युद्दीपन विभावसामग्रीसूचनेनाधुनैव त्वं खयमेव स्मरपार