________________
ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
चतुर्विशतिधा शिष्टस्ततो गौणादिभेदतः । लक्ष्यश्चतुर्धा व्याख्यार्थोऽप्यखिलो व्यञ्जकः कमात्।।१०१॥ कालिन्दीकबरीभारः सीमन्तस्ते सरस्वती । गङ्गैव मौक्तिकालिश्च पुष्पाण्यस्मन्मनोरथाः ॥ १०२॥ कामपल्लव एवायं भाले ते तिलकः प्रिये।
कर्णावाक्रमतो नेत्रे शोणश्चलति रोषतः ॥ १०३ ॥ छतोरित्यर्थः ॥ १०॥ न केवलमवशिष्टश्चतुर्विंशतिविध एव सप्रयोजनोऽपि तु गौणादिभेदेन वाक्यार्थोऽपि चतुधैवमित्यनुपदमेवोक्तश्चतुर्विधो लक्ष्यात्मको वाक्यार्थोऽपि प्रागुक्तकमेण व्यञ्जकोऽस्तीत्याह-चतुर्विशतिधेति ॥ १०१ ॥ अथ प्रतिज्ञानुक्रमेण लक्ष्याणां पदार्थानां वाक्यार्थानां च व्यङ्गयोदाहरणान्यष्टाविंशतिसंख्याकान्याह-कालिन्दीत्यादिसप्तभिः । इदं हि मानिनी भवानी प्रति भगवतोऽनुनयतः श्रीशंकरस्य वचनम् । हे गौरि, कालिन्दी कलिन्दनान्नः पर्वतस्य कन्या यमुनेत्यर्थः । कवरीभारः काादिसाधर्येणोक्तनदीरूपस्तव केशपाशोऽस्तीत्यर्थः । एतेन नद्याः प्रकृत्यैव क्वचित्सरलत्वात्' क्वचित्कुटिलत्वाच तत्केशेष्वपि तथालं योतितम् । तदिदं प्रयोजनवतो गौणस्य सारोपस्य लक्ष्यपदार्थस्योदाहरणम् । ततस्तमेव भगवन्तरेणोदाहरति-सीमन्त इति । तत्र सिन्दूरापूरणेनारक्तत्वात्स्वभावतः सूक्ष्मत्वादिना स्फुटत्वाच्च सरस्वतीनदीरूपत्वम् । तेनात्र प्राचीसरस्वतीत्वारोपेण तद्धम्मिळचूडामणौ सूर्यवं सूचितम् । इदं तु विचक्षणलक्षणालक्ष्योदाहरणम् । अथ साध्यवसानोदाहरणमाह-गवेति । मौक्तिकालि: अलंकारविशेषत्वेन गुम्फितमुक्ताफलपतिरित्यर्थः । गङ्गैव शुक्लत्वादिगुणैर्भागीरथ्येवेत्यर्थः । एतेनात्र स्वगतगङ्गाधरत्वसाधादवइयोपभोग्यत्वं तथाखिलेन प्रयागरूपत्वोक्त्या सेवनीयतमत्वं च ध्वनितम् । अत्रोदाहरणत्रयेऽपि रूपकमेव । एवं शुद्धसारोपोदाहरणमाह-पुप्पाणीति । गुम्फितानि मालत्यादिकुसुमानि । अस्मदिति । प्रयागे हि पूजार्थ भक्तजनैः समर्पितानि पुष्पाणि तत्तन्मनोरथ. संपादकत्वेनायुघृतन्यायेन तद्रूपाण्युच्यन्ते, तद्वत्प्रकृते त्वन्मस्तकेऽपि निरूपितरीत्या प्रयागरूपत्वसिद्धेस्तान्यप्यस्मन्मनोरथहेतुत्वेन तद्रूपाणि संपद्यन्त इत्यर्थः । अत्र पुष्पाणां स्वमनोरथपूरकत्वं वदता भगवता श्रीशंकरेण भो प्रेयसि, कामस्य कुसुमायुधत्वेन स्मरशरीभूतानि पुष्पाणि यदा त्वया वसंतोषेणैवालंकारार्थमेव शिरोरुहेषु ग्रथितानि तदा तानि खां शीघ्रमेवोद्दीपनादिना मद्वशीकरिष्यन्त्येवेति खाशयो द्योतितः ॥ १०२ ॥ अथ तमेव साध्यवसानमुदाहरति-कामेति । हे प्रिये, यः ते तव भाले ललाटे तिलकः कुङ्कुमतिलकोऽस्ति । अयं कामपल्लव एव मया खभाललोचनाग्निना प्राग्दग्धो यः कामस्तस्य योऽङ्कररूपः पल्लवो मनस्याविर्भावस्तद्धेतुत्वात्तथेत्यर्थः । तद्भालगतकाश्मीरतिलकमवलोक्य कामान्तकस्यापि मम मनसि कामोदयो भवतीति भावः । पल्लवशब्देनेह सस्यादीनामिवाङ्कुर