________________
साहित्यसारम् ।
[ पूर्वार्ध इत्यष्टाविंशतिविधः संग्रहादुपपादितः। लक्ष्यः पदार्थों रूढोऽत्र चतुर्धान्यः प्रयोजनी ॥ ९९ ॥ व्यङ्गयेन रहिता रूढाविति प्राचां वचोवशात् ।
चतुर्विधस्य रूढस्य न व्यङ्गयाख्यं प्रयोजनम् ॥ १०० ॥ भिधपिण्डमात्रबोधनतात्पर्यानुपपत्ते/जत्वेन वैशिष्टये वाक्यस्य तात्पर्याभावात्त. कालाद्यतत्कालादिवैशिष्टययोर्विरोधाच्च । तस्मादयं लाक्षणिकसर्वपदत्वेन लाक्षणिकः श्रीकृष्णस्य राधाप्रत्यक्षताबोधनेनाभिनवानन्दव्यानरूपप्रयोजनसत्वात्सप्रयोजनस्तकालादिवैशिष्टयादेर्वाच्यार्थस्याधेयस्य राधिकाव्यक्तिमात्रे आधारतायाः सत्वादाधाराधेयभावाख्यस्य सादृश्यादिभिन्नसंबन्धस्य सत्वेन शुद्धोऽपि वाक्यार्थः सिद्ध इत्याशयः । अथ परमौत्सुक्येन द्रुतं तामुपगतं ततः क्रोधात्तयाऽवधीरितमतो गन्तुमुद्युक्तं तं प्रति सा वक्ति-गच्छेति । प्रेयआदिसंबोधनाभावात्कृष्णेति प्रत्यक्षसंबोधनाच खण्डितावेन क्रोधातिशयो व्यज्यते । भो कृष्ण, त्वं गच्छसि चेद्गच्छेत्यन्वयः । तदत्र गमनाभाव एव तात्पर्यान्मागच्छेति विरुद्धः प्रागुक्तरीत्या लाक्षणिको नायकविषयकनायिकाश्रितरतिरूपव्यङ्गयाख्यप्रयोजनसत्वात्सप्रयोजनश्च वाक्यार्थः सिद्ध इति भावः । ततः सा निकटवर्तिनी दूतिकां प्रति भर्सयति-दूतित्वमिति । रे इति नीचसंबोधने । अरे दूति,वं विषं गरलं भूव भक्षयेत्यर्थः । अत्रोपक्रमादिना गरलाशने तात्पर्याभावेन त्वयि जीवत्सां सत्यां मामयं विहाय बल्लव्यन्तरासक्तोऽभूदिति धिग्धिक्तव दौत्यचातुर्यम् । अतो व्यर्थ जीवितं नैव धारणीयं किंतु यथायमन्यस्यामितः परमासक्तो न स्यात्तथा चातुर्य प्रकाशनीयमिति तात्पर्यान्मौयंत्यागे लक्षणेत्ययं लक्षितलक्ष्यात्मकः पूर्वोक्तरीत्या लाक्षणिकः पुरो वक्ष्यमाणस्य 'अविचार्यप्रवृत्तिर्या शीघ्रं चपलतास्ति सा' इति चपलतारूपभावस्य सत्वेन प्रयोजनश्च वाक्यार्थः संपन्न इति तात्पर्यम् । रसादिकं तूक्तदिशोह्यम् ॥ ९८ ॥ एवं लक्षणाभेदादिकं प्रपञ्च्य सुखबोधाय सर्वांलक्ष्यपदार्थानेकीकृत्य तत्संख्यां कथयन्नुपसंहरति—इतीति । इतिशब्दो लक्षणानिरूपणोपसंहारार्थः । नन्वन्येऽप्येवं संबन्धादिभेदैः सहस्रधा लक्षणाभेदाः संभवन्ति तत्कथमष्टाविंशतिविधवगणना युक्तेति चेत्तत्राह-संग्रहादिति । संक्षेपादित्यर्थः । उपपादितः संबन्धादियुक्तिभिः सोदाहरणं निर्णीत इत्यर्थः । नतु प्रतिज्ञामात्रेण कथित इतियावत् । तत्र सप्रयोजनस्य व्यञ्जकत्वात्तदुदाहरणानि पूर्व तत्र तत्रोक्तान्यपि पुनरेकीकृत्य व्यक्तीकर्तुं रूढादिभेदाभ्यां तं विभजतिरूढ इत्यादिशेषेण । अत्र निरुक्ताष्टाविंशतिसंख्याकलक्ष्यपदार्थमध्ये चतुर्धा प्रागुक्तभेदेन चतुर्विधखरूप इत्यर्थः । अन्यः उर्वरितः प्रयोजनी निरुक्तप्रयोजनवानस्तीति शेषः ॥ ९९ ॥ ननु कुतोऽस्य न प्रयोजनमित्यत आहव्यङ्गयेनेति । प्राचो काव्यप्रकाशकारिकाकाराणामाचार्याणामित्यर्थः । वचोव. शात् । 'वशमायत्ततायां स्याद्वशमिच्छुप्रभुत्वयोः' इति विश्वोक्तेर्वाक्याधीनत्वा