SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । विशिष्टलक्ष्या त्वेषास्ति शान्तः पुरुष ईश्वरः । विविष्टलक्षका साध्वी निश्चला श्रीरुदाहृता ॥९५॥ सहेतुलक्षणा बुद्धया स तु साक्षाद्वहस्पतिः। निर्हेतुलक्षणा विद्या शक्रसंपत्तिरुच्यते ॥ ९६ ॥ वाक्यार्थोऽपि चतुधैवं विज्ञेयः सप्रयोजनः। गौणः शुद्धो विरुद्धश्च क्रमाल्लक्षितलक्ष्यकः॥९७ ॥ इन्दाविन्दीवरे भातः सेयमस्त्यम्बुजेक्षण । गच्छ गच्छसिचेत्कृष्ण दूति त्वं भुझ्व रे विषम् ॥९८॥ तत्र विशिष्टलक्ष्यामुदाहरति-विशिष्टेति । वैलक्षण्यार्थस्तुशब्दः । अत्र शान्तत्वविशिष्टः पुरुष एवेश्वरपदलक्ष्य इति विशिष्टलक्ष्यत्वं तथा शान्तिगुणयोगादज्ञाननाशकत्वादितत्साधर्म्यण गौणीत्वमेव 'तस्मादात्मज्ञमर्चयेतिकामः' इति श्रुतिचोदितं निरुक्तपुरुषे परमपूज्यवलक्षणं व्यङ्गयं प्रयोजनमप्यस्तीति तद्वत्त्वमिति लक्षणसमन्वयः । एवमग्रेऽपि ज्ञेयम् । रूपकालंकारः । प्रयोजनान्तरं तु स्फुटमेव । विशिष्टलक्षकामेवमुदाहरति-विशिष्टलक्षकेति । अत्र साध्वी लक्ष्या । शेष लक्षकं तद्विशिष्टमेव ॥ ९५ ॥ अथ सहेतुलक्षणामुदाहरति-सहत्विति । ततो निर्हेतुकां तामुदाहरति-निर्हत्विति । उच्यत इति बुधैरिति शेषः ॥९६॥ एवं लाक्षणिकसर्वपदत्वेन लाक्षणिको वाक्यार्थोऽपि गौणत्वादिभेदैश्चतुर्विधोऽस्तीयाह-वाक्यार्थोऽपीति ॥ ९७ ॥ क्रमेण तमुदाहरति-इन्दाविति । इदं हि गोप्यन्तरमुपभुज्य वृन्दावने राधिकामन्वेष्टुं प्रवृत्तस्य श्रीकृष्णस्य दूरात्कुञ्जविशेषे तन्मुखमालक्ष्य खसहचरं प्रति वाक्यम् । इन्दौ शारदराकासुधाकरे इन्दीवरे नीलोत्पले भातः स्फुरत इत्यर्थः । अत्रेन्दुपदेन मुखमिन्दीवरपदेन नेत्रे भात इति चाञ्चल्यत्वालादकत्वनीलत्वमनोहारित्वरूपैः साधम्र्यैः क्रमेण लक्ष्यन्ते । तेन सुनयनं सुप्रसन्नमिदं कामिनीवदनमस्तीत्येको वाक्यार्थोऽपि लक्ष्य एव सिध्यतीत्ययं गोणो लाक्षणिको वाक्यार्थः संपन्नः । अत्र तद्विषियिणी भगवतो रतिस्तथा रूपकातिशयोक्त्यलंकृतिश्च व्यञ्जनया प्रयोजनमस्येति प्रयोजनतापि।ततः सोऽवलोक्य तो राधात्वेन निश्चित्य भगवन्तं प्रति समुपदिशति-सेयमिति । भो अम्बु जेक्षण, अबुजायाः पद्मायाः ईक्षणं साभिलाषमवलोकनं यस्मिन्निति तत्संबुद्धौ । एतेन त्रैलोक्यसुन्दरी लक्ष्मीरपि यत्र सर्वदा साभिलाषावलोकनशालिनी येन कटाक्षतोऽपि नेक्ष्यते सोऽपि श्रीकृष्णस्तावदृन्दावने कुपितत्वेन निलीनां राधिकामन्वेष्टुं प्रवृत्तः सन्क्वचिद्रात्तदाननं समवेक्ष्य रूपकातिशयोक्त्या वर्णयतीति किं वर्णनीयं तत्सौन्दर्यमिति व्यज्यते । हे कमलेक्षण श्रीकृष्ण, सा प्रागेतावत्कालमनुष्टितभवत्कर्तृकान्वेषणविषया राधिका । इयं प्रत्यक्षं पुरोऽवभासमाना अङ्गुलिनिर्देदया अस्ति । वर्तत इत्यर्थः । अत्रापि वाक्ये प्रागुक्ता सेयमित्यादिवाक्यवद्भागत्यागापरनान्नी जहदजहत्वार्थाख्या सर्वपदलक्षणैव राधा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy