SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [ पूर्वार्धे साहित्यसारम् । व्याजस्तुतिरलंकारः सिध्यत्यस्याः प्रसादतः। प्रयोजनवती तद्वदेषा लक्षितलक्षणा ॥९१॥ वैदेहीमवलोक्यैव स्तब्धो रघुकुलोद्वहः। वैदेहीति पदे लक्ष्यो विदेहस्तत्पिता ततः ॥ ९२॥ विदेहकैवल्यानन्दो लक्ष्यः स्तब्धत्वकारकः। कारणं काव्यलिङ्गाख्यालंकृतेरियमीक्ष्यते ॥९३॥ विशिष्टलक्ष्याद्यप्यन्यचन्द्रालोककृतां मते । प्रयोजनविशिष्टाया गौण्या भेदचतुष्टयम् ॥ ९४॥ जनवत्याः प्रकरणसमाप्त्युत्तरमित्यर्थः । धन्य एवेति । इयमपकारिणं प्रति कस्यचिदन्यनिकटे उक्तिः । आदिपदात् 'गच्छ गच्छसि चेत्' इत्यादि ग्राह्यम् । स्फुटमेवान्यत्॥९०॥अस्याः प्राग्वत्प्रयोजनान्तरमाहार्धन-व्याजस्तुतिरिति। तदुक्तम्-'उक्तिया॑जस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वधुनि विवेकस्ते पापिनो नयसे दिवम्। साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि' इति । अथ लक्षितलक्षणां तामुदाहरति-प्रयोजनवतीति द्वयेन । तद्वत्प्राग्वदित्यर्थः । एषा अग्रे अनुपदमेव वक्ष्यमाणेत्यर्थः ॥९१॥ वैदेहीमिति।विदेहस्य जनकस्य ख्यपत्यं तां जानकीमित्यर्थः । अवलोक्यैव विवाहोत्सवे वीक्ष्यैव न त्वालिङ्गयापीत्यर्थः । एतेन तस्यामतिसुन्दरत्वं ध्वनितम् । स्तब्धः 'स्तम्भः खेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः' इत्युक्तेः कामोत्कर्षेण सालिकं स्तम्भाख्यभावविकारं प्राप्त इति यावत् । रघुकुलेति साभिप्रायम् । रघुवंशावतंसः श्रीरामोऽपीत्यर्थः । एतेनेन्द्रवज्रपातसहिष्णोः रघोवेशोन्नतोऽपि श्रीरामः सीताकटाक्षाक्षेपक्षमो नाभूदिति तस्यां निरुपमत्वं व्यज्यते । ननु किमेतावता प्रकृत इत्यत आह–वैदेहीति । उक्तवाक्य इत्यर्थः । तत्पितेति । निरुक्तव्युत्पत्त्या तस्याः सीतायाः पिता जनितेत्यर्थः । स्मर्यत इति शेषः । ततः उक्तस्मरणानन्तरम् ॥९२॥ विदेहेति । अद्वैतब्रह्मानन्द इत्यर्थः । स्तब्धत्वेति । सप्तम्यां भूमौ तादृगानन्देनैव स्तब्धत्व. दृष्टेस्तद्धेतुरित्यर्थः । अत्रापि प्राग्वत्प्रयोजनान्तरमाह-कारणमिति । तदुक्तम् -'समर्थनीयस्यार्थस्य काव्यलिङ्गसमर्थनम् । जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः' इति । स्पष्टमन्यत् ॥ ९३ ॥ अथ जयदेवसंमतं गौण्याः प्रयोजनवत्याः पूर्वोक्तभेदान्तर्भूतमपि चमत्कारावहत्वेन पृथग्भेदचतुष्टयं स्पष्टयितुमवतारयतिविशिष्टेति । आदिपदेन विशिष्टलक्षकादिग्रहः । अपिः समुच्चयार्थः। चन्द्रालो. केति । बहुवचनं पूजार्थम् । जयदेवकवीनामित्यर्थः । तथाचोक्तं तत्रैव-'लक्ष्य. लक्षकवैशिष्टयाद्विविधापि पुनः पुनः । सरसं काव्यममृतं विद्यास्थिरतरं धनम् । तथा सहेतुरतथा भेदभिन्ना च कुत्रचित् । सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः' इति । अस्यार्थः--लक्ष्यवैशिष्टयालक्षकवैशिष्टयाचेति । शिष्टं स्पष्टमेव॥१४॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy