________________
रावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
नैव स्वीक्रियतेऽसौ चेत्तदा सा चित्रगोमति । तात्पर्यवाहकं चित्रपदमित्येष निर्णयः ॥ ८५ ॥ तथा तत्पुरुषे राजपुरुषोऽस्तीत्युदाहृतौ । लक्षणा राजसंवन्धिन्येव पूर्वपदे मता ।। ८६ ॥ अप्यर्धपिप्पलीत्यादौ शेयोत्तरपदेऽपि सा । तथैवायव्ययीभावेऽप्युपकुम्भमिति ह्यसौ ॥ ८७ ।। समाहाराभिधे द्वन्द्वे समाहारोऽनुभूयते। तदाहिनकुलं पश्येत्यादौ परपदेऽस्तु सा ॥ ८८ ॥ इतरेतरयोगायतद्वाधेनैकशेषके । पितरौ श्वशुरौ चेति सा पित्रादिपदेविति ॥ ८९ ॥ अथ प्रयोजनवती विरुद्धा धन्य एव सः।
किं वक्तव्यमिहेन्यादावधन्यो लक्ष्यतेऽनया ॥९० ।। गोमत्येव गोविशियपुरुष एवेत्यर्थः । चित्रपदार्थस्यान्वयो विज्ञेय इति संबन्धः । उपसंहरति-...इत्येवमिति । तत्रोक्तस्थले । व्यवस्थितिळवस्थेत्यर्थः ।। ८४ ॥ अन्त्यमुपन्यस्य तेनापि प्रकृते व्यवस्थापयति--नैवेति । असौ निरुक्तकदेशान्वयः सा गोपदस्य लक्षणेल्यर्थः । तर्हि चित्रपदं व्यर्थमितिचेत्तत्राह-तात्पयति । उपसंहरति-इत्येष इति । निर्णय: सिद्धान्तः । पूर्वाचार्याणामिति शेषः ॥८५॥ एवं तत्पुरुषे तामुदाहरति-तथा तत्पुरुष इति । राज्ञः पुरुष इति पटीतत्पुरुषः समासः । पूर्वपदे राजपद इत्यर्थः।स्पष्टमन्यत्॥८६॥तस्यवोदाहरणान्तरमाह-अप्य. धति । अपिशव्दः समुच्चयार्थः । अर्धपिप्पली पिप्पल्याः अर्धमिति अर्धपिप्पली । इत्युदाहरणे सा लक्षणा उत्तरपदेऽपि पिप्पलाति पदे । तत्संवन्धिनि ज्ञेयेत्यर्थः । अत्र 'पुस्योऽध समेंऽशके' इति कोशाद्यदि विषमांशो विवक्षितश्चत्पिप्पल्याः अध इति पुंलिङ्गं प्रयोज्यम् । अपिशब्देन तत्पुरुषे पूर्वपद एव लक्षणेति न मार्वत्रिको नियम इति सूचितम् । ततोऽव्ययीभावे तामुदाहरति-तथैवेति । उत्तरपद एवेत्यर्थः । कुम्भस्य उप इत्युपकुम्भं इत्युदाहरणे असा कुम्भपदस्य कुम्भसंबन्धिन्येव लक्षणेत्यर्थः । हिरवधारणे ॥ ८७ ॥ अथ द्वन्द्वे तामुदाहरति क्रमेण समाहाराख्ये इतरेतरयोगाख्ये च-समाहारेत्यादिद्वाभ्याम् । परपदे नकुलपदे सा लक्षणा। अहिनकुलयोः समाहारोऽहिनकुलमिति समाहारेस्वित्यर्थः । अत्र तदेति पदेन यदि समाहारो नानुभूयते प्रकृतवाक्येन तदा नैवात्र लक्षणेत्याशयो वनितः । आदिपदेन पाणिपादं भेरीमृदङ्गमित्यादि ॥ ८८ ॥ इतरे. तरेति । चशब्दात् शिवी युवानावित्यादि ज्ञेयम् । इत्युदाहरणे सा लक्षणा पित्रादिपदेषु माता च पिता च पितरावित्यायेकशेषवशान्मात्रादिविषयिणी बोध्येत्यर्थः । इतिशब्दः समासलक्षणोपसंहारी ॥ ८९ ॥ ततः क्रमप्राप्ता विरुद्धां प्रयोजनवतीमुदाहरति-अथेति । आनन्तर्यार्थोऽथशब्दः । एवं शुद्धायाः प्रयो