________________
साहित्यसारम् ।
[ पूर्वार्धे स्थूणेन्द्रार्थेन्द्र इत्यादौ तादादौपचारिकी। स्वस्वामिभावसंबन्धाद्राजकीयः पुमानृपः॥ ८० ॥ हस्तानमात्रेऽग्रहस्तोऽवयवावयवित्वतः। अतक्षापि तथा तक्षा तात्कादभिधीयते ॥ ८१ ॥ अङ्गुल्यग्रे करीत्याभिमुख्याद्देशोऽवदद्धटम् । वाचकत्वाद्धटपदेऽत्रेति नानाविधास्ति सा॥ ८२ ॥ समस्तकोटावथं ता बहुव्रीहौ तु चित्रगुः । इत्यादौ यद्येकदेशान्वयः स्वीक्रियते तदा ॥ ८३॥ लक्षणा गोपदस्यास्ति गोमत्येवान्वयो गवि।
शेयश्चित्रपदार्थस्येत्येवं तत्र व्यवस्थितिः ॥ ८४ ॥ ॥ ७९ ॥ एवं सर्वसंमतान्व्यस्तकोटिनिविष्टाजहल्लक्षणादींस्तद्भेदानुदाहृत्य पुनर्द्विधापि सादृश्यान्यसंबन्धैरनेकधेति प्राक्प्रतिज्ञातं तत्र के ते संबन्धा इत्याकाङ्क्षायां तेषामानन्त्येऽपि दिक्प्रदर्शनार्थमेव कांश्चित्तान्सोद्देशमुदाहरति-स्थूणेत्यादिभित्रिभिः । स्थूणा स्तम्भेऽपि वेश्मनः' इत्यमरोक्तेः स्तम्भविशेषः स्थूणाशब्द. वाच्यः । साच क्वचिद्यज्ञादिकर्मविशेषे इन्द्रार्था इन्द्राय निवेदिता भवतीति । तस्यां इन्द्र इति पदप्रयोगो लाक्षणिक एवेति । तत्र तादर्थ्यरूपात्संबन्धादेव सेत्यर्थः। एतस्या औपचारिकीत्युपचारवशैकजन्यत्वात्संज्ञापि । अग्रिमस्थलपञ्चकेऽपीयमेव संज्ञा ज्ञेयेत्याशयः । आदिपर्दैन लोके द्रव्याद्यशविभागावसरे अयं द्रव्यांशो देवदत्तोऽयं विष्णुमित्र इत्याद्युदाहार्यम् । स्वेति । 'खो ज्ञातावात्मनि खं त्रिष्वात्मीये खोऽस्त्रियां धने' इत्यमरोक्तेः खशब्देनात्मीयोऽत्र प्रायः ॥ ८०॥ हस्तेति । हस्ताग्र एवेत्यर्थः । अवयवेति । अवयवावयविभावसंबन्धेनेत्यर्थः । अतक्षा. पीति । अपि तथेति निरुक्तौपचारिकलक्षणोदाहरणसमुच्चयार्थमेव तात्कादिति । तस्य तक्ष्णः कर्म यस्य तद्भावस्तस्मात्तब्यापारशालिखादित्यर्थः ॥८१॥ अङ्गुल्यन इति । केनचिरालेन क करीति पृष्टे सति तन्मातुरिदं वाक्यम् । तत्र अङ्गुल्यअपदेनाभिमुख्यसंबन्धाद्देशविशेषो लक्ष्यत इत्यर्थः । अवददिति । चैत्रः घट अवददित्यत्र वाक्ये वाचकलाद्धटपदे लक्षणेत्यर्थः । उपसंहरति-इतीति । सा पूर्व प्रतिज्ञाता लक्षणेत्यर्थः । नानेति । उपलक्ष्योपलक्षकलादिभिः शाखायां चन्द्रः काकवन्तो देवदत्तस्य गृहा इत्यादौ प्रसिद्धैरनेकविधसंबन्धैर्बहुप्रकारेत्यर्थः ॥ ८२॥ अथ समस्तकोटिनिविष्टानां तासां निरूपणमारभते-समस्तेति । अथशब्दः प्रकरणान्तरारम्भार्थः समस्तकोटौ समासघटितलाक्षणिकपदपत्रावित्यर्थः। ताः लक्षणाः ब्रुवे इति शेषः । तत्र बहुव्रीहौ तामुदाहरति-बहुव्रीहौ विति। तुशब्दः पुनरर्थे । चित्रगुरित्युदाहरणम् । तत्र चित्राः गावो यस्येति बहुव्रीहिः । अत्र हि मतद्वयं न्यायविदां चित्रादेः पदार्थैकदेशस्यान्वयखीकारोऽस्वीकारश्चेति । तत्राद्यमुपन्यसति-यदीति ॥ ८३ ॥ तेन प्रकृते व्यवस्थामाह-लक्षणेति ।