SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । अजहत्यप्युपादाननाम्नी श्वेतोऽभिधावति । अनयार्थान्तरे संक्रमितवाच्योऽत्र सूच्यते ॥ ७८ ॥ जहत्यजहती सोऽयं गोपीनाथ इतीरिते । तथा तत्त्वमसीत्यादौ भागत्यागाभिधाप्यसौ ॥ ७९ ॥ ऐरावतरत्नम् २] ४७ निरूपमेवेति भावः । एवं मञ्चाः क्रोशन्ति नौरेषा रौति लोहं दहतीत्याम् ॥ ७७ ॥ एवमजहल्लक्षणामाह – अजहत्यपीति । तत्रापि संज्ञान्तरमाह - उपादानेति । तामुदाहरति - श्वेत इति । अस्याः प्रयोजनमाह – अनयेति । अत्रापि यः श्वेतोऽश्वो धावति तमानयेत्यादितद्वपुः ॥ ७८ ॥ अथ जहदजहलक्षणामुदाहरति – जहत्यजहतीति । श्रीकृष्णस्य मथुरां प्रति गमनानन्तरं कालान्तरे कदाचिद्गोकुलवासिजनानां भगवतो दर्शने जाते सति ततः कस्याचिगोपिकायाः परममहोत्साहवशात्कः श्रीकृष्ण इति निकटवर्तिन्यपि भगवत्येव भ्रान्तायाः संदेहनिरासार्थे कयाचिद्गोपिकयाङ्गुलिनिर्देशे सानुशयं सोऽयं गोपीनाथ इति वाक्य ईरिते उच्चारितेऽत्र तच्छब्दस्य पूर्वपरामर्शित्वेन वृन्दावनादिदेशकै - शोरादिवयोविशिष्टस्य भगवतो वाचकत्वात्तथायमिति पदस्य एतद्देशकालविशिष्टस्य वाचकत्वाविशिष्टयोः परस्परविरुद्धत्वेनाभेदासंभवादत्र निरुक्तलक्षणया तदिदं शब्दवाच्यार्थयोरुक्तरूपयोः परित्यागेन श्रीकृष्णस्वरूपमात्र योर्लक्ष्यांशयोरेव ग्रहेण गोपीनाथपदार्थाभेद घटकशाब्दबोधो भवतीत्यत्र जहत्यजहती लक्षणेत्यर्थः । एवमस्याः लौकिकमुदाहरणमभिधाय वैदिकमप्याह - तथेति । तृतीयपादेन । तत्त्वमसीति शिष्यं प्रति गुरोरद्वैतात्मतत्त्वोपदेशवाक्यम् । तत्रापि तच्छब्दस्य पूर्वपरामर्शित्वेन ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं' 'सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्टाः' इति प्रागुपक्रान्तजगज्जन्मादिकारणत्वविशिष्टब्रह्मवाचकत्वात्त्वंपदस्य च स्थूलादिदेह विशिष्टात्मवाचकत्वात्परस्परं विरुद्धधर्माकान्तत्वेनासिपदद्योतितस्याखण्डाभेदस्यासंभवादुक्तलक्षणयैव पदार्थद्वयेऽपि निरुक्तवाच्यार्थचोः परित्यागेनोभयत्रापि चिन्मात्रयोर्लक्ष्यांशयोग्रहादेकमेवाद्वितीयमित्युपक्रमादियोतिततात्पर्यव्यङ्गचस्याखण्डैकरसस्याद्वैतचिन्मात्ररूपस्य ब्रह्मात्मैक्यस्य सिद्धिर्भवति । पराक्रान्तं चात्र भूरितरं श्रीमद्भाष्यकार भगवत्पूज्यपादपादारविन्दप्रमुखैः पूर्वाचार्यैः श्रीमच्छारीरकमीमांसाभाष्यप्रभृतिषु गुरुलघुनिबन्ध कदम्बेषु । आदिपदेनाहं ब्रह्मास्मीलादीन्येवंजातीयकानि महावाक्यानि गृह्यन्ते । एतस्या एव नामान्तरमाह - भागेति । नन्वनया को वा व्ययार्थः सिद्ध्यति अत्यन्ततिरस्कृतवाच्यादेस्तस्य जहत्यादित एव सिद्धत्वादिति चेत्किं लोके पृच्छसि वेदे वा । नाद्यः । सोऽयमियाद्यदाहृते लौकिकवाक्ये प्राक्तनविलास स्मारकत्वेन बहुदिनलब्धोऽधुनायं बधेच्छं कटाक्षच्छयादिविषयीकर्तव्य इत्यादिवस्तुरूपस्यैव तस्य सिद्धत्वात् । ना'यन्त्यः । यावद्दृश्यध्वंसरूपमोक्षाख्यस्यैव तस्य तत्रापि स्फुटत्वाच्चेति सर्वे शिवम्
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy