________________
४६
साहित्यसारम् ।
[पूर्वार्धे शुद्धा प्रयोजनवती समस्तव्यस्तताभिदा। पुनर्द्विधापि सादृश्यान्यसंबन्धैरनेकधा ॥ ७६ ॥ व्यस्तकोटौ तु जहती लक्षणार्पणसंशिका । गङ्गायां घोष इत्यत्रात्यन्तं वाच्यस्तिरस्कृतः ॥ ७७ ॥
त्वात्तथा । इदं सारोपायास्तस्या उदाहरणं हेबलंकारबोधार्थम् । आप्तेति । आप्तो यथार्थवक्ता तस्योतिर्वचनं तदेवामृतममृतप्राप्तिहेतुत्वादित्यर्थः । इदं तु सारोपायाः । शेषमतिरोहितार्थम् ॥ ७५ ॥ एवं शुद्धायाः प्रयोजनवत्याः प्रतिज्ञातं सारोपत्वादिभेदद्वयमुदाहृत्य पुनस्तस्यामेव समस्तत्वादिभेदादैविध्यं विधत्तेशुद्धति । समस्तत्वं समासघटितत्वम् । व्यस्तवं तच्छून्यत्वमिति यावत् । न केवलमेतावदेव किंतु द्विविधाया अपि तस्यास्तत्तत्संबन्धभेदेन नानाविधत्वमस्तीत्याह–अपिसादृश्येति शेषेण । अपिशब्दो निरुक्तसमस्तत्वादिद्वैविध्यसमुचयार्थः । तेन समस्तव्यस्तताभिदा द्विविधा शुद्धा प्रयोजनवती लक्षणासादृश्यान्यसंबन्धैरनेकधाप्यस्तीति योजना । गौण्यां प्रयोजनवत्यां सादृश्यसंबन्धोऽस्तीति तत्रातिव्याप्तिवारणाय सादृश्यान्येतिसंबन्धविशेषणम् । उपलक्षणमिदं वक्ष्यमाणायां विरुद्धाख्यप्रयोजनवत्यां लक्षणायां विद्यमानस्य विरोध्यविरोधिभावसंबन्धस्य तथा तादृश्यां लक्षितलक्षणायां वर्तमानस्य दूरान्वितत्वसंबन्धस्याफि ॥ ७६ ॥ एवं ब्राह्मणाः सन्ति, छत्रिणो यान्ति, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यतां, गाश्चारयति, रथो गच्छतीत्यादि । तत्र प्रयोजनाधिक्याध्यस्तकोटिनिष्ठानेव दिङ्मात्रेण कतिचित्तद्भेदानुद्देशपूर्वकमुदाहरति-व्यस्तको टौ त्विति । तुशब्दः पुनरर्थे । जहती जहल्लक्षणेत्यर्थः । लक्षणार्पणसंज्ञिकेत्येक पदम् । लक्षणमिति अर्पणमिति च संज्ञा यस्याः सा तथा । एतत्संज्ञाद्वयं तु तान्त्रिकत्वेन पारिभाषिकमेव । उक्तं हि काव्यप्रकाशे लक्षणां प्रकृत्य-'खसिद्धये परापेक्षः परार्थ खसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा' इति । अस्यायमर्थ:-कुन्ताः प्रविशन्तीत्यादौ खशब्दवाच्यानां कुन्तानां जडत्वेन प्रवे. शासंभवात्तदर्थ पराः कुन्तानां धारणकर्तारः पुरुषाः आक्षिप्यन्ते उपादीयन्ते यत्र यदुपादानमेतन्नाम्न्यजहल्लक्षणेयमिति । तथा गङ्गायां घोष इत्यादौ तटस्य घोषाधिकरणतासिद्धये खशब्दितगङ्गाशब्दः स्वार्थमर्पयति जहाति यत्र तदियं लक्षणनाम्नी जहल्लक्षणेति । चन्द्रालोके त्वस्या अर्पणसंज्ञाप्युक्ताऽस्मिन्नेव प्रकरणे'उपादानार्पणद्वारे द्वे चान्ये इति षड्डिधा । कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च' इति । नचात्रार्पणद्वारेति संज्ञा नत्वर्पणेतीति वाच्यम् । नामैकदेशग्रहणे नामग्रहणमिति न्यायेन तत्सिद्धेः । गङ्गायामिति इत्यत्रोदाहरणे वाच्यः वाच्यार्थः. प्रवाहः अत्यन्ततिरस्कृतवाच्यनामा ध्वनिरनया सिद्ध्यतीत्यर्थः । उदाहरणं तु तस्येदमेव । तथाहि-अत्र तीरे यत्पावनत्वं प्रतीयते तदुक्तध्व.