________________
ऐरावतरत्नम् २ ]
सरसामोदव्याख्यासहितम् ।
इयमेवाननं चन्द्र इति चेदुच्यते यदा । तदाभिधीयते कैश्चित्सा विचक्षणलक्षणा ॥ ७२ ॥ सैव साध्यवसाना तु गौरवायमिति स्फुटा । चन्द्र एवेदमित्यादौ रूपकातिशयोक्तिकृत् ॥ ७३ ॥ प्रयोजनवती शुद्धा सारोपायुर्धृतं त्विति । सैव साध्यवसाना चेदायुरेवेदमित्यपि ॥ ७४ ॥ उन्मादो मृत्युराप्तोक्तिरेवामृतमिति क्रमात् । हेत्वलंकारबोधायोपयुक्तास्ति द्विधाप्यसौ ॥ ७५ ॥ वाहीक देशोद्भवः पुरुषः । तत्र गौरिति वृषभवाचकं पदं चन्द्रपदवज्जाड्यमान्यादिसादृश्यगुणयोगालाक्षणिकम् । तत्र चन्द्रवदाहादकलगुणयोगात्त्रीमुखे कामोद्दीपकत्वमस्तीति व्यङ्गयार्थज्ञानं प्रथमोदाहरणे यथा प्रयोजनमेवमुक्तपुरुषो - Sनादरणीय इत्याद्यत्रापि तदस्त्येव । आरोपस्तूक्तलक्षणात्स्फुट एवेति सारोपेयम् । एवं सिंहो देवदत्तः, अग्निर्माणवकः आदित्यो यूपः, यजमानः प्रस्तरः, प्रेयसी प्राणाः, विद्या धनं इत्याद्युदाहरणान्तराणि ज्ञेयानि । न केवलमुक्तव्यङ्गयज्ञानमेव प्रयोजनमस्याः किंत्वन्यदपीत्याह - रूपकेति ॥ ७१ ॥ एतस्या एवोदाहरणं व्यत्ययेन विन्यस्तं चेन्नामान्तरमपि चन्द्रालोककारैः कृतमित्याह – इयमेवेति । विस्तरस्तु नातीवोपयुक्त इति तत्रैव ज्ञेयः ॥ ७२ ॥ एवं प्रयोजनवत्याः प्रथमभेदात्मिकां गौणीं सारोपत्वेन निरूप्य यथोद्देशक्रमवशात्तामेव साध्यवसानत्वेनापि समुदाहरति — सैवेति । प्रयोजनवती गौणी लक्षणैवेत्यर्थः । अध्यवसानलक्षणं तु पूर्वनेवोक्तम् । तेन सहितेत्यर्थः । तुशब्दो वैलक्षण्यावद्योती । अयं कञ्चिजडः पुरुषः गौरेव वृषभ एवेत्यर्थः । अत्र गोपदशक्यवृषभनिष्ठजाड्यादिगुणानां पुरुषविशेषे सत्वाङ्गोलारोपविपयस्य वाहीकदेशीयस्य पुंसः आरोप्यमाणगोखरूपेवोक्तत्वात्सारोपत्वं सादृश्यसंबन्धघटितत्वाद्गौणत्वं चेति लक्षणसमन्वयः । प्रयोजनवत्त्वं तु प्राग्वदेव इति । निरुक्तोदाहरण इत्यर्थः । स्फुटा स्पष्टेति यावत् । तदेव दृढीकर्तुमुदाहरणान्तरमाह - चन्द्र एवेति । आदिशब्दादिमे नीलोत्पले एवेत्यादि वोध्यम् । एतस्या अपि प्राग्वत्प्रयोजनान्तरमाह – रूपकेति । तदुक्तम् - ‘रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । पश्य निलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः' इति । निगीर्य उपमेयमन्तः कृत्वेत्यर्थः । इदं पुरोदृश्यमानं वस्तु चन्द्र एवेत्यत्रोपमेयस्य रमणीमुखस्यान्तर्धानपूर्वकं चन्द्रत्वाध्यवसानात्तथात्वमिति ॥७३॥ ततः क्रमप्राप्ते प्रयोजनवत्यां शुद्धायामपि सारोपत्वसाध्यवसानत्वे समुदाह्रियेते— प्रयोजनवतीत्यादिना । अत्र सादृश्यादिभिन्नसंबन्धवत्त्वाच्छुद्धवम् । अन्यत्सर्वं प्राग्वत् । आयुःसाधनत्वाद्धृतादावायुङ्कारोपः । इदं घृतमित्यर्थः । एवं लाङ्गलं जीवनमित्याद्यूहनीयम् । स्पष्टमन्यत् ॥ ७४ ॥ नन्वनया कोवाऽलंकारः सिद्धयतीतिचेत्सोदाहरणं तमाह — उन्माद इति । उन्मादः प्रमादः स तावन्मृत्युहेतु
2
४५