________________
४४
साहित्यसारम् ।
[ पूर्वार्धे शुद्धा निरूढानीलाख्ये घटाख्ये च पदे क्रमात् । गुणजात्योर्वाचकेऽपि गुणी व्यक्तिश्च लक्ष्यते ॥ ६७ ॥ विरुद्धा तु निरूढेयं दर्शो भद्राथ मङ्गलः। अदर्शादय एवात्र लक्ष्यन्ते तद्विरोधिनः ॥ ६८ ॥ द्विरेफेति पदे रेफौ भ्रमरेति पदे ततः। भृङ्ग एवं निरूद्वैषा शेया लक्षितलक्षणा ॥ ६९ ॥ प्रयोजनवती गौणी शुद्धा चापि पुनर्द्विधा । आरोपाध्यवसानाभ्यां चतुःसंख्यास्तु ता यथा ॥ ७० ॥ गौणी प्रयोजनवती सारोपा चन्द्रआननम् ।
गौर्वाहीक इति शेया रूपकालंकृतौ हिता ॥ ७१ ॥ इति प्रयोजना ॥ ६६ ॥ शुद्धति । नील इति नीलाख्ये पदे तथा घट इति घटाख्ये पदे क्रमादनुक्रमेण गुणजात्योर्वाचकेऽपि यद्यपि नीलपदं नीलरूपाख्यगुणवाचकं तथा घटपदं पूर्वोत्तरीत्या जातिशक्तिवादस्यैव स्वीकारात् जातिवाचकमेव तथापि तत्र नीलपदे नीलरूपवान् गुणी घटपदे च कम्बुग्रीवादिरूपा व्यक्तिरेव लक्ष्यतेऽत इयं शुद्धा निरूढा लक्षणेत्यर्थः ॥ ६७ ॥ विरुद्धा त्विति । दर्शः अमावास्या, भद्रा प्रसिद्धैव विष्टिसंज्ञान्तरा, मङ्गलः भूमिपुत्रः । अदर्शादय एवेति । नदृश्यते सूर्यप्रविष्टत्वाचन्द्रो यस्मिन्नित्यदर्शः। दर्शः सूर्येन्दुसङ्गमः' इत्यमरः । एवमादिपदान्न विद्यते भद्रं कल्याणं यथा तथा नास्ति मङ्गलं शुभं यस्मादिति तद्विरोधिन एव लक्ष्यन्तेऽत इयं विरुद्धा निरूढेत्यर्थः । तुशब्दो वैलक्षण्यार्थः । अत्र दर्शादिपदेष्वित्यर्थः ॥ ६८ ॥ द्विरेफेतीति । द्विरेफेति पदे रेफद्वयं शक्यं । तच्च भ्रमरेतिपदे वर्तत इति द्विरेफपदेन भ्रमरपदं लक्ष्यते । ततो भृङ्गो ज्ञायत इति एषा निरूढा लक्षितलक्षणा द्विरेफपदलक्षितं भ्रमरपदं तद्वाच्ये भृङ्गे द्विरेफपदस्य लक्षणेति तथा ज्ञेया बोध्येत्यर्थः ॥ ६९ ॥ एवं निरूढलक्षणायाः सोदाहरणं गौण्यादिभेदचतुष्टयं स्पष्टीकृत्याधुना क्रमप्राप्तं प्रयोजनवत्यास्तावद्भेदचतुष्टयं गौण्यादिरूपं निरूपयंस्तत्रापि प्रथमं तद्भेदद्वयमपि सारोपसाध्यवसानसभेदात्पुनर्द्विविधमिति तत्पूर्वदल एव चातुर्विध्यं संपन्नमित्याह-प्रयोजनवतीति । आरोपाध्यवसानाभ्यां युक्तासतीति शेषः । आरोप्यमाणारोपविषययोः पृथर्देिशेऽप्यभेद. कथनमारोपः। आरोपविषयस्यारोप्यमाणखरूपेणैवोक्तिरध्यवसानम् । ताः निरुक्तभेदभिन्नाश्चतुर्विधा लक्षणाः । यथा अनेन वक्ष्यमाणप्रकारेण सोदाहरणा विज्ञेया इत्यर्थः ॥ ७० ॥ तत्र प्रयोजनवतीं गौणी सारोपामुदाहरति-गौणी प्रयोजनवतीति । अत्र गौणीति पदं प्रयोजनवतीतिपदोत्तरं बोध्यम् । प्रयोजनवत्या एव भेदचतुष्टये प्रथमस्य गौण्याख्यभेदस्य कथ्यमानखात् । इत्थं विन्यासस्तु पूर्वश्लोकादस्य झटिति वैजात्यसूचनार्थ एव । चन्द्र आननमित्यनेनैव निर्वाहे गौरित्यायुदाहरणान्तरं तु दाार्थमेव । वाहीको