SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । गौणी शुद्धा विरुद्धा च तथा लक्षितलक्षणा। चतुर्धाऽसौ निरूढेति प्रयोजनवतीति च ॥ ६४ ॥ प्रत्येकं द्विविधा सापि निरूढत्वं तु पूर्वतः। सत्प्रयोगप्रवाहत्वं व्यङ्ग्यज्ञानं प्रयोजनम् ॥ ६५ ॥ तत्र गौणीनिरूढानुकूलः कुशल इत्यपि । सादृश्यगुणयोगेनानुगुणश्च विवेचकः ॥६६॥ लस्य तिर्यक्त्वेन नीचत्वेऽपि तदुक्तेः सहृदयप्रियत्वमेवं ममाल्पज्ञत्वेनाप्रौढत्वेऽपि मद्वचसो विपश्चिदादरणीयत्वं बालभाषितत्वाद्भविष्यत्येवेति द्योतितम् । नन्वेवं बाल्यं चेत्किमिति प्रवर्तसे ग्रन्थरचन इत्यतो विशिनष्टि-वृद्धति द्विकासेति च विशेषणाभ्याम् । वृद्धाः विद्यादिवृद्धाः ये पूर्वीचार्यास्तेषां ये सिद्धान्ताः निर्णयाः तेषां यः सुगन्धः साधुलेशस्तेन इद्धा समृद्धा धीर्बुद्धिर्यस्य तेनेत्यर्थः । एतेन स्वस्यासामर्थेऽपि तत्प्रसादादेव किंचित्प्रावीण्यं सूचितम् । पक्षे वृद्धा पल्लवादिसमृद्धाः एतादृशा ये सिद्धाः फलदानोन्मुखाः आम्रास्तेषां अन्ताः अग्राणि तेषां वासन्तिकाम्राग्राणां यः सुगन्धः आमोदः तेन इद्धा वारंवारं कलरवोयुक्ता धीर्यस्य तेनेत्यर्थः । तथा तद्विकासेच्छुना तेषां उक्तसिद्धान्तानां यो विकासस्त. दिच्छुना तद्वाञ्छकेनेत्यर्थः । एतेन सारग्राहित्वं ध्वनितम् । पक्षे आम्रविकासाभिलाषिणेत्यर्थः ॥ ६३ ॥ एवमविरोधं संसाध्याथ लक्षणाभेदानुद्दिशतिगौणीति । सादृश्यसंबन्धवती गौणी, सादृश्यादिभिन्नसंबन्धवती शुद्धा । स्पष्टमन्यत् । इति भेदैरसौ पूर्वोक्ता लक्षणा चतुर्धा चतुःप्रकारा बोध्येत्यध्याहृत्य योजना । एवमुक्तायाश्चतुर्विधाया अपि तस्याः पुनद्वैविध्यमुद्दिशति-निरूढे. तीति ॥ ६४ ॥ ननु किंनाम निरूढत्वं किंच प्रयोजनवत्त्वमित्याकाङ्क्षायां प्रथम निरूढां लक्षयति-निरूढत्वं त्विति । तुशब्दः शङ्कोपशमार्थः । पूर्वतः अनादितः । सत्प्रयोगप्रवाहत्वं सतां पण्डितानां यः प्रयोगप्रवाहः प्रयोगपरंपरा तत्त्वं । निरूढलक्षणाखमित्यर्थः । अथ क्रमप्राप्तं प्रयोजनवतीलक्षणं सूचयितुं प्रयोजनस्वरूपमाह-व्यङ्गयज्ञानमिति । व्यङ्गयस्य वक्ष्यमाणव्यञ्जनाख्यवृत्तिविषयस्यार्थस्य ज्ञानं बोध एव प्रयोजनं तयुक्ता या लक्षणा सा प्रयोजनवतीति भावः । एतेन निरूढलक्षणायां निरुक्तं प्रयोजनं नैवास्तीति ध्वनितम् ॥ ६५ ॥ एवं लक्षणाष्टकमध्ये निरूढायास्तावद्गौण्यादिभेदचतुष्टयं क्रमेणोदाहरति-तत्र गौणीत्यादिचतुर्भिः । अनुकूल इति अनेनैव निर्वाहे कुशल इति व्युत्पत्तिदायार्थम् । सादृश्येति लक्षणसमन्वयार्थम् । सादृश्याख्यः कूलानुगतत्वादिरूपशक्यसाम्यरूपो यो गुणो धर्मस्तद्योगेनेत्यर्थः । अनुगुण इति अनुकूलपदेन निरू. द्वेनैकवस्तुनिष्टवसादृश्यगुणयोगादनुगुणो लक्ष्यते तथा कुशलपदेन कुशान् लाति तृणान्तरत्यागेनादत्त इति व्युत्पत्त्या सारग्राहिलसादृश्यगुणयोगेन विवेचको लक्ष्यत
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy